________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અતિથિભાસ્કર ] तस्याः पर्वतिथ्याराधनानङ्गत्वलामेन तदाराधनोपपादनाय "क्षये पूर्वा तिथिः कार्या” इति पूर्वार्धस्यानुत्थानापत्तेः। न च वृद्धायास्तिथेः पूर्वदिनेऽपि पर्वतिथित्वस्वीकारे तद्दिनेऽपि तदाराधनाऽऽपत्तिरिति वाच्यम् , अत एव “वृद्धो कार्या तथोत्तरा" इति वचनेन वाचकमुख्येनोत्तरस्यामेव तत्करणीयताया व्यवस्थापनात् , तथा च तस्याः प्रथमदिने पर्वतिथित्वेऽपि उक्तवाचकमुख्यवचनानुराधादेव तद्दिने न तदाराधनात भावः ।
इदञ्च सेनप्रश्नस्य तृतीयोल्लासे पण्डितपमानन्दगणिप्रश्नोत्तरप्रसङ्गे स्पष्टमेवोक्तमस्ति, तद्यथा-अथ यदि प्रत्याख्यानवेलायां विलोक्यते, तदा तु पूर्वदिने द्वितयमप्यस्ति, प्रत्याख्यानवेलायां समग्रदिनेऽपि, इति सुष्टु आराधनं भवतीति प्रश्नः।
अत्रोत्तरम्--क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा 'इति उमास्वातिवाचकवचनप्रामाण्याद वद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति"। यदि पुनः पूर्वदिनेऽपर्वतिथित्वमष्टम्यादेरभिप्रेतं स्यात् कथन्तर्हि तत्प्रश्नोत्तरतया स्पष्टमेव तन्नोक्तं स्यात् , किन्तु वृद्धिस्वीकृतिपूर्वकं तद्वचनवलात्तस्या आराधने प्रामाण्यं द्वितीयदिन एवोच्येत, अतः स्पष्टमस्ति यत् पताकाकारं तदादेष्टारं च विहाय न कश्चित् तद्वचसो वृद्धायास्तिथेः पूर्वदिनेऽपर्वतिथिव्यवस्थितिफलकत्वं मन्यते। ___ "तत्पूर्ववर्तिनी सप्तम्यैवौदयिकी द्विः सूर्योदयस्पर्शिनी” इतिवचनमपि तस्य युक्तिहीनम् , वृद्धायास्तिथेः पूर्वदिने आराधनाप्रसङ्गभङ्गाय तस्यास्तहिनेऽनौदयिकीकरणस्य पताकाकृन्मते आवश्यकत्वेऽपि सप्तम्यास्तदिने औदयिकीत्वकल्पनाया अनावश्यकत्वात् । “तिथिरहितः सृष्टिकालो न भवति" इति नियमानुरोधेन पूर्वदिवसीयसूर्योदयकालस्य तिथिमत्तोपपादनाय सप्तमीकल्पनमावश्यकमिति तु न सत् , ज्यौतिषोक्तस्य तद्दिनेऽष्टम्या औदयिकीत्वस्यास्वीकृतेरिव तन्नियमस्यास्वीकृतेः सम्भवात्। एकत्र मर्यादामुन्मृद्य व्यवहर्तुरितरत्रापि मर्यादामर्दने त्रपाभावात् ।
अत्र प्रकरणे “वृद्धौ कार्या तथोत्तरा" इति वचसः फलतः परिसंख्याविधित्वमुपपादयता परिसंख्यायां सम्भवतस्त्रैदोप्यस्य निराससूचनायकादशे पृष्ठे पताकाकृता यदुक्तम् "लोकतः पूर्व शास्त्रस्य सामान्यशास्त्रतः पूर्व वा विशेषशास्त्रस्य शास्त्रसिद्धतयाटिप्पण प्रवृत्तेः पूर्वमेव 'वृद्धौ कार्या तथोत्तरा' इत्यस्य प्रवृत्तत्वात् एतच्छास्त्रप्रवृत्तिदशायां टिप्पण्या अप्रवृत्तत्वात्” इत्यादि, तदत्यन्तमसङ्गतम , टिप्पणस्य प्राक् प्रवृत्तत्वाभावे "वृद्धौ कार्या" इत्यादिवचस उत्थानस्यैवासम्भवात् , अयम्भावः-टिप्पणेऽष्टम्यादिपर्वतिथेः सूर्योदयद्वयस्पर्शित्वलक्षणायां वृद्धौ दृष्टायां द्वितीयदिन एव तस्या आराधनौचित्यस्य व्यवस्थापनाय "वृद्धौ कार्या” इतिवचनं प्रवर्तते। यदि पुनष्टिप्पणेन वृद्धिर्विहिता न स्यात् कुतस्तदा वचनमेतदवसरं लभेत । अत एव मन्ये, पताकाकृताऽपि नवमे पृष्ठे "कस्याश्चिदपर्वतिथेर्दिनद्वयोदयव्यापित्वरूपवृद्धौ टिप्पणे दृष्टायाम् उत्तरा द्वितीयदिनीयोदयस्पर्शिन्येवौदयिकी कार्या, न पूर्वति" इत्येवं "वृद्धौ कार्या तथोत्तरा" इत्युत्तरार्धं विवृण्वता स्वीकृत मेतत् । एवंच पूर्वं नवमे पृष्ठे तद्वचसः टिप्पणप्रवृत्तिपूर्वकत्वमुक्त्वा पश्चादेकादशे पृष्ठे तत्रैव प्रकरणे तस्यास्तदपूर्वकत्वकथनं लेखितुरत्यन्तमनवधानं ध्वनयति ।
उत्तरार्द्धस्य द्वितीयव्याख्यायाः विमर्दनम्
पताकाया एकादशे पृष्ठे “लौकिकटिप्पणे कस्याश्चित्तिथैर्वृद्धौ दृष्टायाम् उत्तरा द्वितीयैव तिथिः तथा पर्वतिथिः कार्या इति, अर्थात् टिप्पणे पर्वतिथेवृद्धौ सत्यामुभयत्रापि पाक्षिकतया पर्वतिथित्वप्राप्तौ एतच्छास्त्रस्य नियामकत्वे सिद्धेऽपि नियमशास्त्रस्य विधिमुखेन प्रवृत्तेरेव शास्त्रसम्मतत्वात् तादृशोऽर्थः सुसम्पाद्यः। एवञ्च द्वितीयस्यां पर्वतिथावष्टम्यादावौदयिकीत्वं नियम्यते द्वितीयैव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org