________________
[ જૈન દૃષ્ટિએ તિથિદિન અને પૌરાધન–સંગ્રહવિભાગ पक्षि दिने इत्यर्थोऽभिप्रेततया वर्ण्यते, तदा तु तत्र क्षीणाष्टम्यादेः कात्स्न्येनैव वर्तमानतया " कियन्तोंऽशा वर्तन्ते " इत्युक्तिरयुक्ता स्यात् । न च पताकाकृत्परिपोषणीये पक्षे परमार्थतः पर्वतिथीनां क्षयाभावेन क्षीणतया निर्दिष्टानामष्टम्यादीनां सूर्योदयावधिकानामप्यंशानाम् सत्तया तेषां च टिप्पणप्रवेदितादष्टम्यादिप्रवृत्तिकालादुत्तरमसत्तया " कियन्तोंऽशाः वर्तन्ते " इत्युक्तिर्युक्तैवेति वाच्यम्, तत्पक्षे तादृशांशानां तद्दिने विधि विनापि सत्त्वेन विधेयत्वानुपपत्त्या तद्वचस्तद्विधानमुखेनाष्टम्यादिविधायकतावर्णनस्यासङ्गत्यापत्तेः । तद्वाक्येतरेणावेदिततयाऽपूर्वताऽऽस्पदानां तेषां बोधकतया तद्विधायक ताव्यपदेशस्तत्रेति नानवद्या वाक्, तथा सति “ अपूर्वविधिविधायकेन इति शब्दस्यापि " विधीयते बोध्यत इति विधिः, अपूर्वश्चासौ विधिरित्यपूर्वविधिः - अपूर्वो बोध्यः, तस्य विधायकेन बोधकेन इत्यर्थाभिप्रायेण तद्वचसि सम्भवत्प्रयोगतया तच्छब्दमादाय, पताकायाः षष्ठे पृष्ठे मध्यस्थावमाननामन्दमनोरथस्य मृतिगर्ते निपातापत्तेः ।
""
२६
एवं चैतदालोचनाया अयं निष्कर्षोऽवसेयो यत् " क्षये पूर्वा तिथिः कार्या ” इति वचनं क्षीणपर्वतिथावौदयिकीत्वस्य क्षीणतिथिपूर्वतिथिविशिष्टे क्षयदिवसोदरवर्तिनि काले क्षीणतिथेः सूर्योदयावधिकतदंशानां वा विधायकं बोधकम् वा न सम्भवति, टिप्पणदृष्ट्या अशक्यत्वाद् बाध्यत्वाच्च, पताकाकृतस्तदादेशकृतश्च दृष्ट्या विधिनिरपेक्षसिद्धिकत्वात् टिप्पणप्रतिबद्धबोधकत्वाच्च । टिप्पणं दुर्बलम् " क्षये पूर्वा तिथिः कार्या ” इति शास्त्रं च ततः प्रबलमिति न ततस्तत्साध्यबोधप्रतिरोध इति न शङ्कनीयम्, स्वविषये शास्त्रस्य प्राबल्येऽपि टिप्पणस्य तदुपजीव्यज्योतिषशास्त्रस्य च विषये तिथिप्रवेशादिरूपे तच्छास्त्रस्यैव दौर्बल्यात् । जैनागमविसंवादितया टिप्पणं हीनबलम्, तच्छास्त्रं च जैनागमसंवादितया बलवत्तरमित्यपि वचो न वाच्यम्, पताकाकृत्परिगृहीतपक्षोपज्ञेन तच्छास्त्रप्रतिपाद्यतयाऽभिप्रेतस्यार्थस्य प्रत्याययितुरेकस्याप्यागमवचसो ऽधुनावधि धीपद्धतावनवतारात् ।
किञ्च पताकाकृन्मते " क्षये पूर्वा तिथिः कार्या ” इति वचनं नाचार्यो मास्वातिभी रचितं न वा जैनागमसागरादुन्नतं किन्तु वैदिकसम्प्रदायग्रन्थाद् गृहीत्वोद्घोषितम्, तथा च टिप्पणतद्वचसोरुभयोरेव परकीयत्वे तयोः पूर्वं दुर्बलमुत्तरं बलवत्तरमिति कथं शक्यते वक्तुम् ? वाचकमुख्यैः परिग्रहणादुत्तरं बलवत्तरं पूर्वञ्च तद्राहित्याद् दुर्बलमित्यपि कथा व्यथाफलैव, जैनटिप्पणस्य प्रागेव लुप्ततया तिथ्यादिपरिचयाय सम्प्रदायान्तर टिप्पणस्य तैरङ्गीकारात्, अन्यथा पताकाकर्तुस्तन्नियोतुच नये पर्वतिथीनां क्षयवृद्धयोर्जे नागमस्य तदुपजीविटिप्पणस्य चासम्मतत्वेन " क्षये पूर्वा तिथिः कार्या" इति वचनोद्घोषस्याकर्तव्यत्वापत्तेः ।
पताकायाः नवमे पृष्ठे “ पूर्वमाचार्य - श्रीसागरानन्दसूरिमतं महताऽऽडम्बरेण खण्डयन् अन्तत - स्तदेव प्रकारान्तरेण साधयन् मध्यस्थः " इति पताकाकृद्वचनं तमस्तेजसोरिव विभिन्नयोस्सूरिमध्यस्थमतयोरभेदवेदयितुस्तस्य तदुभयोरेव मतापरिचयमवद्योतयति, तथाहि श्रीसूरीणां मते तद्वचः पर्वतिथीनामौदयिकीत्वं विदधत्तासां क्षयाभावे तत्पूर्ववर्तिनीनामपर्वतिथीनाञ्च क्षये पर्यवस्यति, मध्यस्थते च क्षीणा पर्वतिथिरक्षीणपूर्वतिथिरूपतां वहन्ती तदौदयिकीत्वं लभते तद्वचसो बलेन, एवञ्च श्रीसूरिमते टिप्पणे औदयिकीत्वेन निर्दिष्टाऽप्यपर्वतिथिरनौदयिकी क्षीणत्वेन निर्दिष्टा च पर्वतिथिरौदयिकी, मध्यस्थमते च टिप्पणानुसारेणापर्वतिथिरप्यौदयिकी, पर्वतिथिश्च क्षीणा सत्यपि " क्षये पूर्वा तिथिः कार्या ” इति वचनानुसारेण औदयिकापर्वतिथ्यात्मभावेनौदयिकी । एवमत्यल्पविदामपि स्पष्टवेद्यं तयोर्मतभेदं निर्भेदं ब्रुवाणः पताकाकारः कस्यां कोटौ निवेशमर्हतीति तेनैव निश्चेयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org