________________
- ૨૫
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અતિથિભાસ્કર ] क्षयदर्शनप्रयुक्तत्वेऽपि तात्पर्यवर्णनं न युक्तम् ? विषयस्य ज्ञानप्रयुक्तत्वाभावात् , पञ्चाङ्गदृष्टक्षयप्रयुक्तशब्दस्य पञ्चाङ्गद्वारकक्षयदर्शनविदितार्थकतया न दोष इत्यप्युक्तिरयुक्ता क्षयदर्शनस्य क्षयात्मकौदयिकीत्वाभावस्य वेदनेऽप्रयोजकत्वात्।
किञ्च एकत्रौदयिकीत्वाभावस्य सूर्योदयानन्तरोत्पन्नत्वप्रयुक्तताया अन्यत्रोदयसम्बन्धाभावप्रयुतताया अपरत्र च पञ्चाङ्गदृष्टक्षयप्रयुक्ततायाः कथनं तत्प्रयोजकापरिज्ञानं पताकाकृतः प्रकाशयति ।
"क्षये दृष्टे सति" इत्यस्य (उदयसम्बन्धाभावे सति) इति विवरण दानन्तु नितरां पदार्थापरिचयप्रत्यायकम् , योगाचारं तदनुचरितारं चापहाय केनापि ज्ञानशेययोरैक्यानङ्गीकारात्। वस्तुतस्तेनापि ज्ञानाकारेणैव शेयस्यान्यथाकृतत्वेन तयोरैक्यास्वीकारात् ।
__ अष्टमे पृष्ठे औदयिकीत्वाभावस्य क्षयशब्दार्थत्वमुक्त्वा पुनर्नवमे पृष्ठे "क्षयः-व्यपदेशाभावः” इत्येवं क्षयशब्दस्य विवरणमपि पताकाकृति किमनुमापयति ? विचारणीयमेतद् बुधैः, इति दिक् । ____ अत्रैव पृष्ठे “तिसृभ्यो हि करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः” इति स्तोत्रीयर्गतक्रमवैपरीत्यविधानं विष्टुतौ तद्वत्' इति ग्रन्थेन तेनोक्तम् यद् यथा स्तोत्रीयाणाम् ऋचां क्रमः “तिसृभ्यो हि” इत्यादिना विष्टुतौ वैपरीत्येन विधीयते, अर्थात् उत्तमायाः प्रथमायाम् , प्रथमायाः मध्यमायाम् मध्यमायाश्च ऋचःक्रम उत्तमायाम् ऋचि विधीयते तथैवात्र “क्षये पूर्वातिथिः कार्या” इति वचनं टिप्पणानुसारेण अनौदयिकीमष्टम्यादितिथिमौदयिकीम् औदयिकीञ्च सप्तम्यादिमनौदयिकी विधत्त इति, एतदपि प्रकृते न घटते, यतो हि“ तिसृभ्यो हि" इत्यादिवाक्ये वैपरीत्यं स्पष्टं निर्दिष्टम्, अत्र तु पताकाकृतो मतेन क्षीणतिथौ पूर्वागतस्यौदयिकीत्वस्योक्तावपि पूर्वतिथावनौयिकीत्वस्य स्पष्टमनुक्तत्वात् ।
तरस्यास्तद्दिने औदयिकीत्वस्योक्त्या पूर्वस्यास्तद्राहित्यं लभ्यत एवेति चेत्, न?-तथा सति दृष्टान्तवाक्येऽपि उत्तमायाः प्रथमात्वोक्त्या क्रमेणप्रथममध्यमयोर्मध्यमोत्तमात्वलाभस्य सम्भवेन शब्दतस्तदुक्तेर्वैयर्थ्यापत्तेः। दृष्टान्तवैषम्यमप्यत्र दुर्वारम् , यतो हि दृष्टान्तवाक्यम् ऋचां पौर्वापर्यं परावर्तयति प्रकृतवचस्तु पताकाकृन्मतेऽपि पूर्वोत्तरतिथ्योः पौर्वापर्यं नान्यथयति। ... तदीयं तद्वचसो द्वितीयं व्याख्यानञ्चाष्टमे पृष्ठ इत्थमङ्कितम्__“अथवा पूर्वा इत्येतदेवोद्देश्यवाचकं पदम्, प्रकरणाद् योग्यताबलाद् वा तिथिरिति लभ्यते, टिप्पणे पर्वतिथीनां क्षये दृष्टे सति पूर्वा तिथिः, तिथिः-पर्वतिथिः कार्या इत्यर्थः।।
क्षीणत्वेन दृष्टाया अष्टम्यादिपर्वतिथेः पूर्वस्यां सप्तम्यादौ कियन्तोंऽशा घर्तन्त इति न ते विधातव्याः “अप्राप्ते शास्त्रमर्थवत्' इति न्यायात् , किन्तु अप्राप्तसूर्योदयावधिकांशानामेव विधानेन अष्टम्यादिपर्वतिथिरेव पूर्वस्याः टिप्पणे औयिकीत्वेन दृष्टायास्सप्तम्यादितिथेः स्थाने औदयिकी विधेयेति फलति" इति ।
अत्र “प्रकरणाद् योग्यताबलाद्वा” इत्युक्त्या प्रकरणस्यासत्त्वं योग्यताऽपेक्षया दुर्बलत्वं वाऽभिप्रेतं प्रतिभाति, तयोः कतरत्सम्मतमिति पताकाकारः प्रष्टव्यो भवति, आद्यस्य सम्मतत्वोक्तौ पूर्वव्याख्यानोक्तदिशा तिथिपदस्य प्रकरणात्पर्वतिथिपरत्वं मन्यमानस्य तिथिप्रकरणाभावसूचनं न संगच्छते, द्वितीयस्य सम्मतत्वोक्तौ पञ्चविंशे पृष्ठे तस्य दौर्बल्यनिरासो न शोभते । ___ एवम् “क्षीणत्वेन दृष्टाया अष्टम्यादिपर्वतिथेः पूर्वस्यां सप्तम्यादौ कियन्तोंऽशा वर्तन्त इति न ते विधातव्याः ” इति वाक्याभिप्रेतमपि पृच्छ यते पताकाकारः।
क्षयदिने सूर्योदयात् कियत्कालानन्तरमष्टम्यादिप्रवृत्तिस्थले पूर्वस्यां सप्तम्यादौ कियन्तोंऽशाः वर्तन्ते” इत्युक्तेः क आशयः स्यात् ? यथाश्रुतशब्दगम्यस्तु अयुक्त एव, सप्तम्यनन्तरप्रवृत्ततिथेरंशानां सप्तम्यां वर्तनासम्भवात् , “ यदि पूर्वस्याम् सप्तम्यादौ " इत्यनेन सूर्योदयकाले सप्तम्यादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org