________________
२४
[ જૈન દષ્ટિએ તિથિરિન અને પરાધન-સંગ્રહવિભાગ स्वरूपतो विधित्सितं किन्तु प्रत्ययतः, स च न प्रकारान्तरतः प्राप्तः, प्रत्युत पञ्चाङ्गेन प्रतिहत इति तस्यैव बलिना विधिना प्रसूतिरीप्सितेत्येतदपि तथैव, स्वसामग्रीमात्रतन्त्रस्य तस्य पुरुषप्रयनासाध्यत्वात् , न च नेदं वचस्तत्तदीयं ज्ञानं वा विधत्ते किन्तु तदववोधन्तनुते नातः कथितो दोष इति वाच्यम् ? तथा सति तस्य वचसोऽपूर्वबोधकशब्दव्यपदेशविषयत्वसम्भवेऽपि अपूर्वविधिशब्दव्यपदेशपात्रताप्रतारितत्वप्रसक्तेः। न चोपचारादौदयिकीत्वबोधनद्वारा क्षयदिने क्षीणतिथेराराधनाविधानपर्यवसानाद्वा तत्र तादृशो व्यपदेशस्समर्थनार्ह इति वाच्यम् ? तथा सति मध्यस्थमतखण्डनस्यानौचित्यापत्तेः, तन्मतस्यापि " टिप्पणे प्रत्याख्यानवेलायां विनिर्दिष्टा सप्तम्यादिर्न केवलं सप्तम्यादिरूपैव, अथवाऽऽराधनादिविधावपि तद्रूपैव, किन्तु आराधनाद्यनुरोधेन क्षीणाष्टम्यादिरूपापीत्येतदर्थस्य मानान्तरानधिगतस्यावबोधकतया तादृशबोधोपधानद्वारा क्षयदिने क्षीणतिथ्याराधनायास्साधनान्तराद्यसिद्धायाः प्रतिष्ठापने पर्यवसायितया वा तद्वचोऽपूर्वविधिरूपम् ” इत्येवंरूपतया वर्णनसम्भवात् ।
पदार्थाशुद्धयो भाषाऽशुद्धयश्चात्र प्रसङ्गेऽनेकाः, यासु कियत्य एवम्:
अष्टमे पृष्टे “तिथिसामान्यरूपायामपर्वतिथौ” अत्र पूर्वपदमव्यावर्तकं तिथिभेदभूताया अपर्वतिथेरपर्वतिथिशब्दादेवातिथिव्यावृत्तायाः लाभात् । ___ "तिथेः क्षयो नाम नात्यन्ताभावो ध्वंसो वा, तस्यास्तहिने सत्त्वात्" इत्यप्ययुक्तम् ? तद्दिने तत्तिथिसत्तायास्तदत्यन्ताभावस्य तदीयध्वंसस्य वा तद्दिननिष्टताया अप्रतिकूलत्वात् , तत्तिथिमत्यपि दिने दण्डप्रहरादिकालभेदेन तयोः प्रवेशस्य निष्कण्टकत्वात् ।
"तस्याः सूर्योदयानन्तरोत्पन्नत्वेन औदयिकीत्वाभावः” इत्यप्यशुद्धम् , औदयिकीत्वाभावस्योदयकालसम्बन्धाभावरूपस्य सूर्योदयानन्तरोत्पन्नत्वाहेतुकत्वात् , किंहेतुकस्तदा स इति चेत् , सम्बन्धस्य सम्बन्धिद्वयाधीनतया द्वयोरेकतरस्याप्यभावे तत्सम्भवायोगेन सूर्योदयकाले क्षीणत्वेनाभिमतायास्तिथेरभावात्तदायत्त एव सः, तत्तिथ्यभावस्तदानीं कुतो हेतोरिति चेत् सूर्योदयकाले तत्पूर्वकाले वा तत्तिथिप्रवेशप्रभवाभावात् ।
“ उदयसम्बन्धाभावाद् यदौदयिकीत्वं गतम्" इत्यपि सदोषम् , यतो हि औदयिकीत्वस्य गतत्वमौदयिकीत्वाभावरूपम् , तच्चोदयसम्बन्धाभावरूपम् , प्रयोज्यप्रयोजकभावश्च भेदनियत इति ।
"अत्र हि न पूर्वात्वं विधेयतावच्छेदकम् , तस्य पूर्वमेव सत्त्वात् , न वाऽष्टमीत्वम् , तस्य विधातुमशक्यत्वस्य पूर्वमेव निरूपितत्वात् ”।
__ अनेन वाक्येन पूर्वात्वस्य विधेयतानवच्छेदकत्वे पूर्वामात्रनिष्ठत्वस्य यद्धेतुत्वमुक्तम् , तन्न सम्यक्, तस्य तदीयविधेयतावच्छेदकत्व एवानुकूलत्वात् । एवमष्टमीत्वस्य विधेयतानवच्छेदकत्वे तद्विधानाशक्यत्वनिष्ठपूर्वनिरूपितत्वस्य यद् हेतुत्वं कीर्तितं तदपि दुष्टम् , तादृशनिरूपितत्वस्य तत्राहेतुत्वात् , पूर्वनिरूपिततद्विधानाशक्यत्वस्य हेतुतायां तात्पर्यमिति तु नोचितम् , निरूपितत्वशब्दोत्तरपञ्चम्यर्थन तदप्रकृत्यर्थस्य तादृशाशक्यत्वस्यान्वयासम्भवेन तद्वाक्यतस्तल्लाभासम्भवात्, कथञ्चिदेतत्परीहारोपायचिन्तनेऽपि तद्विधानाशक्यत्वस्य तदविधेयतायामेव हेतुत्वौचित्येन तस्य विधेयतानवच्छेदकत्वेऽनिमित्तत्वात् , किञ्च पूर्वापदस्य विधेयसमर्पकत्वस्वीकारे पूर्वस्यां विधेयतायाः प्राप्तत्वेन पूर्वात्वे विधेयतावच्छेदकतायाः प्रसक्त्या तत्र तन्निषेधसम्भवेऽपि अष्टमीत्वेऽप्रसक्तायास्तस्याः प्रतिषेधस्यात्यन्तमयुक्तत्वमेव । मध्यस्थोक्तिदृशोपन्यासोऽसावित्यपि नाभिनन्द्यं प्रस्तावान्तरत्वात् ।
“पञ्चाङ्गदृष्टक्षयप्रयुक्तौदयिकीत्वाभावात्” इति वाक्यादुक्तमौदयिकीत्वाभावस्य क्षयप्रयुक्तत्वमप्यसङ्गतम् , औदयिकीत्वाभावं क्षयशब्दार्थतया निरुच्य तस्मिन्नेव तत्प्रयुक्तत्ववाचोऽनौचित्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org