________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અનિથિભાસ્કર |
किश्च कथितो हेतुः पताकाकृत्कर्तृकोपन्यासकर्मतान्नैवार्हति ज्यौतिषोपजीविटिप्पणप्रवेदितस्याटमीक्षयदिने सप्तम्या औदयिकीत्वस्याष्टम्याश्चानौदयिकीत्वस्य "क्षये पूर्वा तिथिः कार्या" इति विधिबलेन पताकाया अष्टमे पृष्ठे तेन स्वयमेव वैपरीत्येन वर्णयिष्यमाणत्वात् ।
पताकान्त पतिताया: “क्षये पूर्वा तिथिः कार्या" इति वचनव्याख्यायाः परीक्षणम्
पताकायाः सप्तमे पृष्ठे “ तथापि जैनसम्प्रदाय” इत्यारभ्य “वचनमिदं प्रवर्तते” इत्यन्तेन वाक्यजातेनोक्तवचसोऽवतारणां प्रदर्य तदीयं व्याख्यानद्वयं पताकाकृता स्वेष्टतया निर्दिष्टम् । तत्र प्रथमन्तावदेतत्-" अत्र तिथिरित्युद्देश्यसमर्पकम् , पूर्वेति पदं विधेयसमर्पकम् , तिथिरिति सामान्यश्रतमपि तिथिपदं प्रकरणात पर्वतिथिपरम , तिथिसामान्यरूपायामपर्वतिथौ अवश्यकर्तव्यस्य कस चिदनिरूपणात् अवश्यकर्तव्यविशिष्टा पर्वतिथिरेवात्रोद्देश्यतां भजते, अतस्तस्याः क्षयासम्भवात् तत्पूर्वस्या अपर्वतिथेरेव क्षयः फलति । पर्वतिथेस्तु अनेन वचनेनौदयिकीत्वं विधीयते । ......... .........अतश्चायमर्थः सिद्धो भवति, पर्वतिथेः पञ्चाङ्गे क्षये दृष्टे सति तत्प्राक्तनापर्वतिथिनिष्ठमौदयिकीत्वं पर्वतिथौ भावयेदिति"। ___ अत्र वयमिदमाघोण्यामो यत् पताकाकृता निर्दिष्टा उक्तवचसोऽवतारणा नितरामसङ्गता, यतो हि तेन पूर्व “जैनसम्प्रदाये औदयिकी तिथिरेव सर्वकार्योपयोगिनी" इत्युक्तम् । तेन चौदयिकीनां पर्वतिथीनामेवाराधनायास्तदङ्गतायाः वा जैनशास्त्रादिष्टत्वं प्रतिभाति । एवञ्च याः पर्वतिथयः पञ्चाङ्गेनानौदयिक्यो निर्दिश्यन्ते तासामाराधनाया अकरणेऽपि शास्त्रादेशभङ्गभयाभावात् “कथङ्कारं तत्राराधना क्रियताम्" इत्याकाङ्क्षायाः पताकाकृद्दर्शिताया अनुत्थानपराहतत्वेन तत्पशमकतया तद्वचसः प्रवृत्तिरयौक्तिकी। . ____ अथ यदीदमुच्येत यत् समर्थनीयतया तत्स्वीकृते पक्षे पर्वतिथीनां वास्तविकस्य क्षयस्याभावात् सर्वासां पर्वतिथीनामौदयिकीत्वेन तासां सर्वासामेवाराधनीयता शास्त्रतः प्राप्नोति, परं पञ्चाङ्गेन तासु कस्याश्चित् क्षयनिर्देशे तस्याः प्रकारान्तरेणौदयिकीत्वस्य ज्ञातुमशक्यतया " कथं तदाराधना कार्या येन शास्त्रीयः सर्वपर्वतिथ्यादेशः पालितः स्यात्' इत्याकाङ्क्षायाः जन्म निष्प्रत्यूहमेवेति । तदप्यसङ्गतम् ।
"क्षये पूर्वा तिथिः कार्या” इत्येतद्वचोव्यतिरिक्तस्य पर्वतिथिक्षयाऽभाववेदिनोऽभावेन तत्प्रवृत्तेः पूर्व सर्वासां पर्वतिथीनामौदयिकीत्वं भवत्येवेत्यस्य ज्ञातुमशक्यतया औदयिकीनामेव तिथीनां सर्वकार्योपयोगित्वमिति जैनसिद्धान्ते जाग्रति सर्वपर्वतिथीनामाराधनादेशे शास्त्रतात्पर्यज्ञानोदयासम्भवेन तादृश्या आकाङ्क्षायाः प्रादुर्भूतेः प्रजापतिसहस्त्रेणापि कर्तुमशक्यत्वात् । व्याख्यानविषये चैतद् ब्रूमः___ अत्र तिथिपदस्योद्देश्यपरत्वम् पताकाकृत ईप्सितं न युक्तम् ? “यच्छब्दयोगः प्राथम्यम्" इत्यभियुक्तवचोऽनुसारेणोद्देश्यपरपदस्य प्राथमिकप्रयोगनियमस्य परित्याज्यताया अगति विनाऽनौचित्यात् । ___ “तिथिरिति सामान्यश्रुतमपि पदं प्रकरणात् पर्वतिथिपरम्" इतीदमपि पताकाकृद्वचनमयुक्तमेव, सामान्यवाचिनस्तिथिपदस्य पर्वतिथिमात्रे संकोचकाभावात् , विशेषतोऽनिर्देशेन प्रकरणस्य प्रकृतेऽस्तित्वशून्यतायाः दुर्बलतायाश्चाग्रे विस्तरेण वर्णयिष्यमाणत्वाच्च । ____ यच्चाटमे पृष्ठे पताकायाः “पूर्वानिष्ठं यदौदयिकीत्वं तदेवानेन विधीयते” इति, तदत्यन्तमसत् ? पूर्वानिष्ठस्य तस्य पूर्वस्यामेव सम्भवेनान्यस्यां तद्विधानासम्भवात् । पञ्चाङ्गेन पूर्वानिष्टतया निर्दिष्टं वस्तुतस्तूत्तरस्यामेव विद्यमानं यदौदयिकीत्वं तद्विधीयत इत्यर्थकतया तस्य वाक्यस्य समर्थनमपि न शक्यसम्भवम् ? उत्तरानिष्ठस्य तत्र विधिं विनापि सिद्धतया विधानानावश्यकत्वात् । न तत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org