________________
२२
| જૈન દૃષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ
अर्हत्तिथिभास्करः शासनजयपताकायाः द्वितीये पृष्ठे तजनकेन “क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति वचनस्य हेमाद्रिद्वारेण शिवरहस्यसौरपुराणवचनत्वं वर्णयित्वा प्रथमे चरणे चानुपूर्वीभेदं दर्शयित्वा तस्य मध्यस्थकथितमाचार्योमास्वातिसंग्रथितत्वं निरस्तम् । परमेष निरासो न शोभनो न च सम्मान्यो जैनसंघस्य, तद्वचसो हेमाद्रावुद्धृताद् वचसो विभिन्नानुपूर्वीकत्वाद् विभिन्नार्थकत्वाज जैनजनेषु वाचकमुख्योमास्वातिसंग्रथितत्वेन प्रसिद्धत्वाच्च । न चानुपूर्वीभेदस्य तद्वचोविग्रहाव्यापितया हेमाद्रिनिर्दिष्टतादृशवचोविभिन्नकर्तृकत्वं तस्य वचसो न सम्भवतीति वाच्यम् ? अनेककर्तृकेषूपनिषद्गीतापुराणादिषु देशविशेषे भिन्नानुपूर्वीभाजां बहुलवचसामनेककर्तृकत्वस्य सर्वसम्मतत्वात् । विभिन्नार्थकत्वमपि तयोरनुपपन्नतया न शङ्कनीयम् , विवदमानाभ्यां द्वाभ्यामप्याचार्याभ्यां वर्ण्यमानस्य तद्वचनार्थविशेषस्य वैदिकसंप्रदाये तद्वचनार्थताया अनभ्युपगमात् । जैनप्रसिद्धयनुरोधेनापि तादृशोक्तेरौचित्यसम्भवेन प्रस्तुते प्रधाने विषये तत्कर्तृपरीक्षणस्यानङ्गत्वेन जैनेतरकर्तृकत्वव्यवस्थापनस्य प्रतिकूलत्वेन चाप्येष पताकाकृतः प्रयासः परिहसनीय ५व । ___पताकायास्तृतीय पृष्ठे तत्पित्रा “क्षये पूर्वा तिथिः कार्या” इति वचनस्य सप्तम्यादिरूपायां पर्वतिथौ अष्टम्यादिरूपक्षीणतिथिविधायकत्वं मध्यस्थाभिप्रेतं प्रथयित्वा "न टेकस्यां तिथावपरा तिथिर्विधातुं शक्यते । नोकस्मिन् धर्मिणि धर्म्यन्तरविधानं सम्भवति । न वा सप्तमी विधिशतेनाप्यष्टमीकर्तुं शक्यते” इति वाक्येन निराचिकीर्षितम् ।
पुनस्तुरीये पृष्ठे तिथिशब्दार्थं निरूप्य विशिष्टे प्रवर्तमानस्य विधेः विशेष्यस्य प्रकारान्तरेण प्राप्तत्वे विशेषणपर्यवसायितां च प्रकाश्य प्रोक्तवचसः सप्तम्यादौ सप्तमीत्वादिनिवृत्तिपूर्वकाष्टमीत्वादिविधायकत्वस्यापि मध्यस्थाभिकाक्षितस्यापाकरणं पताकायाः पञ्चमे पृष्ठे " एवञ्च कलागता या सप्तमी संख्या सा सप्तमी संख्या न भवति किन्तु अष्टमी सेति विधिरवबोधयतीत्यभ्युपगन्तव्यम् , कथन्तत् सङ्गच्छताम् ? प्रत्यक्षतो ज्यौतिषशास्त्रतो वाऽवगम्यमानस्य वस्तुनः केवलं विधिना प्रलपितुमन्यथयितुं वाऽशक्यत्वात्” इति वाक्येन चिकीर्षितम् । ___ तत्र प्रथमे स्थले सप्तम्यादावष्टम्यादिविधानस्याशक्यत्ववर्णनमात्रं कृतं न. तु कश्चन हेतुरुपन्यस्तः । केवलं कपोलवादनेनैवात्मनो मनोरथो विभरिषितः । अतो नात्र किश्चिदधिकं वक्तुमवसरः, किन्तु केवलमेतदेव निवेदयामो यन्नैष मध्यस्थस्याशयो विद्यते यद् विधिः सप्तमीमष्टमीकरोति तथा कर्तुं वा पुमांसमादिशति, किन्तु प्रकारान्तरेणाप्राप्तामौदयिकापर्वतिथीनां क्षीणपर्वतिथिरूपतां स्याद्वादमार्गेण आराधनानिमित्तापेक्षया निर्बाधं सम्भाव्यमानामवबोधयति, बोधयंश्चैवं प्रभवति पर्वतिथीनां क्षयदिनेऽपर्वतिथीनामपि पर्वतिथ्यात्मनाऽऽराधनाङ्गताव्यवस्थापन इति ।
द्वितीये स्थले च चन्द्रकलात्मिकायां तिथौ तद्गतायाः सप्तम्याः संख्याया निवृत्तेरष्टम्याः संख्यायाश्च वृत्तेर्बोधकत्वं तद्वचसो न सम्भवतीत्यत्र प्रत्यक्षज्यौतिषान्यतरेण वेद्यमानस्यापलापने ऽन्यतासम्पादने वा विध्यसामर्थ्य हेतुतयोपन्यस्तम् । तत्सत्यमपि प्रकृतेऽनावसरिकम् , यतो हि न विधेः सप्तम्यास्तिथेः सर्वथैव सप्तमीत्वशून्यत्वमष्टमीत्वसम्पन्नत्वञ्च व्युत्पाद्यतयाऽभिसंहितं किन्तु जैनशास्त्रीयाराधनानिमित्तापेक्षयैव, ज्यौतिषशास्त्रविरोधस्तु तदा स्याद् यदि ज्यौतिषं सप्तम्याः जैनसम्मतसापेक्षाष्टमीत्वाभावमावेदयेत् , अथवा “क्षये पूर्वा तिथिः कार्या" इति विधिः ज्यौतिषप्रतिपादितं सप्तमीत्वमष्टमीत्वरहितत्वञ्च सर्वथा प्रत्यवस्थापयेत् , परमेतस्योभयस्यैवाभावान्न प्रकृते तस्य सन्देहगन्धोऽपीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org