________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્ધતિથિભાસ્કર]
सा च समितिस्तदनुकूलामखिलां सामग्री सङ्कलय्य तथा सघृणेनाक्ष्णा निराकृतं पुण्यपत्तनस्थविद्वद्वैद्यश्रीपरशुरामशर्मसम्भवं निर्णयपत्रं तन्निन्दकं तस्याः रहस्यमित्रं पं० श्रीतुलाकृष्णझाशर्मजातम् आगमानुसारिमतव्यवस्थापनम् एतन्निखिलोपजीव्यं जैनाचार्ययोः श्रीसागरानन्दसूरिश्रीराम चन्द्रसूरिमहाशययोस्तदुभयवाक्यारूढं मतभेदश्च सुचिरं समीक्ष्य जैनागमसदाचारानुसारेण तस्याः जैनोपग्रहणयोग्यतानिश्चये प्रचुर परिश्रम्य च तांजैनजनग्रहणानर्हामेव वक्ष्यमाणप्रकारेण निर्धारयति निरूपयति च पर्वतिथीनां क्षयवृद्धिविषये शास्त्रीय सिद्धान्तं निरस्यति च नियुक्तिकां कदाचारप्रवर्तिकामसत्तन्त्रमूलिकां परकथाम् ।
वाराणस्याः विशिष्टविद्वद्वर्गेण वरिष्ठतया गण्यमानान् व्याकरणस्य, साहित्यस्य, न्यायमी. मांसादिसमग्रदर्शनशास्त्रस्य, ज्यौतिषस्य, धर्मशास्त्रस्य, पूज्यतमस्य वेदराशेः, इतिहासस्य, प्राकृतादिभाषाभाण्डारस्य च प्राच्यप्रतीच्यपद्धतिभ्यां सर्वाङ्गीणं पाण्डित्यं दधानान् काशीकलशायमानान् पण्डितप्रवरान् सदस्यतया संगृह्णन्ती समितिरियञ्चैतद् विचारयति
यदा जैनपर्वतिथीनां क्षयवृद्धिविषयके प्रकृते विवादे निर्णयार्पणाय उभयपक्षाभ्यां राजनगरस्य प्रधानतमश्रेष्ठिनो भारतस्य राज्यसंघेन जनवर्गेण च सम्मानितस्य स्वपरराष्ट्रप्रतिष्ठागरिष्ठस्य श्रावकधुर्यश्रीकस्तूरभाईलालभाईमहाशयस्य द्वारेण कश्चन मध्यस्थो निरवाचि तदा तदीयनिर्णयस्य द्वाभ्यामेव पक्षाभ्यां माननमुचितमावश्यकञ्चासीत् । परं यदि परेण पक्षण तन्निर्णयेऽविश्वासकारण किञ्चिदासादि तदा पुनर्निर्णयगवेषिणा तेन पक्षान्तरसहयोगेनैव कस्यचित् प्रतिष्ठिततरपण्डितान्तरस्य समित्यात्मनः कतिपयविद्वत्समवायस्य वा निर्वाचनं न्याय्यं धर्म्यञ्चासीत् परं पराजितपक्षण तथा नाकारि किन्तु गृहीतमताविष्टतया पक्षान्तरापेक्षामनवेक्ष्यैव स्वात्मनो मनोनीतः कथितो जनो न्ययोजि ।
स च जनो निजनियोजकाभिप्रायानुसारिणी “शासनजयपताकाम्” विनिर्माय स्वकीयविनयपरिचयप्रार्थनादिवलेन बहूनां सम्प्रदायान्तरोदन्तसंवेदनरसरहितानां वाराणसेयानामन्येषाञ्च विदुषां हस्ताक्षराणि संगृह्य च स्वात्मानमनृणमकार्षीत् । इत्यतः समितिरियं पराजितपक्षस्य कार्यमिदन्नितान्तन्निन्दनीयं घोषयति न पारयति चेदं निश्चेतुं यत् पक्षद्वयं निर्वाचितस्य विदुषो निर्णयं पक्षकपातिनं प्रथयन् पराजितः पक्षः स्वेन केवलेन वृत्तस्य पुंसो निर्णयं सकलजैनजनतायाः विश्वासभाजनं कथं कर्तुं निरचैषीत् ? अतो निजनिर्णये कृतनिर्भरा समितिः महता सौहार्दैन जैनजनेभ्यस्तदागमानां तथ्यं पथ्यं च सन्देशमर्पयन्ती प्रस्तुते विषयेऽन्यथावादिवर्ग प्रत्यक्षशास्त्रार्थकथापथेऽवतरीतुं सोत्साहमाह्वयति ।
अहन्तु सुदृढ़ विश्वसिमि यत् समितेनिर्देक्ष्यमाणं निर्णयं निर्दोषतया, परिपूर्णतया, जैनागमप्रतिष्ठापरित्राणप्रवणतया, मध्ये विच्छिन्नस्य जैनशास्त्रसम्मतप्राचीनसदाचारस्य पुनः प्रतिष्ठापकतया च विचाराचारसम्पदवदातस्सकलश्रीजैनसङ्घो वैमत्यत्यागेन सम्भावयिष्यति, यश्च तदन्तगतो वर्गो हितमपीदं न श्रोष्यति स समितेर्वादाह्वनिमन्त्रणमङ्गीकुर्वन्नात्मनः प्रतिभटान्नूनं न चिरञ्चाभिमुखीकरिष्यतीति। शास्त्रार्थमहाविद्यालयः ।
समितिसंयोजयितुः मीरघाट, काशी आश्विनी २००६ वै०
श्रीराजनारायणशुक्लस्य
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org