________________
२०
| જૈન દષ્ટિએ તિયિદિન અને પવરાધન-સંગ્રહવિભાગ ९. श्रीबलदेव उपाध्यायः एम० ए० साहित्याचार्यः (प्रोफेसर-बनारसहिन्दूयूनिवर्सिटी, सुप्रतिष्ठितमङ्गलाप्रसादपुरस्कारविजेता, “भारतीयदर्शन,” “बौद्धदर्शन," "भारतीयसाहित्यशास्त्र," " शङ्कराचार्य" आदि अनेक सुप्रसिद्ध ग्रन्थों के प्रणेता ।)
१०. श्रीवीरमणिप्रसाद उपाध्यायः एम्० ए० बी० एल०, डी. लिट्०, साहित्याचार्यः (प्राप.सरबनारसहिन्दूयूनिवर्सिटी)
११. श्रीकान्तानाथशास्त्री तैलङ्गः एम० ए० साहित्यशास्त्री (प्रोफेसर-बनारसहिन्दयूनिवर्सिटी )
१२. श्रीनिरीक्षणपतिमिश्रः शाब्दिकशिरोमणिः साहित्यव्याकरणाचार्यः (प्रोफेसर-काशीहिन्दविश्वविद्यालय, प्रधानमन्त्री-बिहारप्रान्तीय धर्मसङ्घ ।)
१३. श्रीकेशवद्विवेदी न्यायाचार्यः (प्रोफेसर-गवर्नमेण्टसंस्कृतकालेज, बनारस )
१४. श्रीबदरीनाथशुक्ला न्यायवेदान्तशास्त्राचार्यः तार्किकशिरोमणिः (अध्यापक-काशीहिन्द विश्वविद्यालय, प्रधानमन्त्री-राष्ट्रियसंस्कृतपरिषद्, काशी।)
१५. श्रीरामानुज ओझाः न्यायव्याकरणाचार्यः वेदान्तसाहित्यसागरः ( अध्यापक, बिरलासंस्कृतकालेज़-लालघाट, बनारस. उपाध्यक्ष-संयुक्तप्रान्तीय संस्कृताध्यापकसङ्घ । )
१६. श्रीरामगोविन्दशुक्लः साहित्यव्याकरणाचार्यः, न्यायमीमांसाशास्त्री, साहित्यरत्नम् ( अध्यापक-श्रीसंन्यासीसंस्कृतकालेज, काशी । मन्त्री-संयुक्तप्रान्तीय संस्कृताध्यापकसङ्घ, सम्पादक-"सन्देश")
१७. श्रीराजनारायणशुक्ला न्यायाचार्यः व्याख्यानवाचस्पतिः अनेकशास्त्राध्यापकः ( अध्यक्ष-शास्त्रार्थमहाविद्यालय, मीरघाट, काशी. प्रधानमन्त्री-श्रीकाशीविद्वत्परिषद्, संयोजक-प्रकृतविद्वत्समिति। )
श्रीविश्वनाथो विजयते आद्यमावेदनम्
पञ्चोत्तरसहस्रद्वयसम्मिते वैक्रमे वर्षे प्रावृषि ऋतौ गुर्जरदेशस्य कतिपयजैनमित्रः काशीस्थपण्डितश्रीचिन्नस्वामिशास्त्रितो लब्धसम्भवां तदीयविनयादिवशंवदैर्बहुलैर्विद्वत्कुलैरुपलालितां "शासनजयपताकाम्" मह्यं समर्प्य तदीयसर्वाङ्गपरीक्षणपुरस्सरं तद्विषये सम्मतिप्रदानाय सम्प्रार्थितोऽभवम् , मन्ये, तस्यां काशिककोविदवर्गस्य वास्तविक्या धारणाया वाराणसेयतया विशेषाभिज्ञ विज्ञायैव ते मामेतत्कार्याय न्ययूयुजन् , मत्तः प्रमितावदाततामेव च तानिजसमाजसमादृताम: चिकीर्षिषुः ।
अहमपि महता कौतुकेन प्रथमं स्वयमेव ताम् पवित्रेणान्तःकरणेन पक्षिषि । परीक्षयाऽनया च तस्या विषये समुद्भूतं स्वकीयं भावं स्वात्मनः पाणिस्पर्शपूर्वकैराशीर्वादैस्तदीयसौभाग्याभिवृ. द्धिकामेभ्यः काश्याः कतिपयपण्डितेभ्यो व्यजिज्ञपम । तेभ्यश्च सत्यवाग्भ्यः पाववासिजातेति कृत्वा किमपि न निभाल्यैव तैर्हस्ताक्षरप्रदानेन सा प्रतिष्ठापितेति परिज्ञाय तदीयतत्त्वनिर्णयेनात्मनस्तितर्पयिषया बहुविश्रुतानां बहुश्रुतानां निसर्गनिष्पक्षनिश्चयानां पुरःप्रकाशयिष्यमाणसंज्ञानामनेकशास्त्रान्तरङ्गविज्ञानां वाराणसेयविद्वत्प्रकाण्डानामेकां समिति संयोज्य तस्या पव परीक्षणभारं समाप्पिम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org