Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 431
________________ २८ [ જૈન દષ્ટિએ તિથિનિ અને પરાધન-સંગ્રહવિભાગ पताकाकृतस्तत्प्रत्यायकत्वात् , तादृशस्य च तस्यैकदिनेऽपि तिथिद्वये सम्भवेन पर्वानन्तरपतिथिक्षयस्थले दिनभेदेन तिथिद्वयाराधनव्यवस्थाया अयौक्तिकत्वाच्च । अत्र प्रसङ्गे पताकाकृतोक्तम् “ आराधनाङ्गत्वेन तिथेविधानात् आराधनस्य प्रधानत्वात्तिथेश्च गुणभूतत्वात् गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणायोगात् गुणानुरोधेन प्रधानवृत्तेरन्याय्यत्वात् " इति वचनमप्यालोचनमर्हति, तथाटतेन वाक्येन 'तिथ्यनुरोधेनाराधनस्य द्विःकरणस्यायुक्तत्वमुक्तम' तत्र च तिथेः गौणत्वमाराधनस्य च प्रधानत्वं हेततयोपन्यस्तम । परमिदमसङ्गतम् । यतो हि पर्वतिथिमत्सु दिनेषु या पर्वतिथ्याराधनाः विहितास्ताः पर्वतिथिनिमित्तिका इति तासां पर्वतिथ्यनुविधानं न्याय्यमेव नैमित्तिकस्य निमित्तानुसारितायाः सर्वसम्प्रतिपन्नत्वात् । एवञ्च यथा निमित्तभूतायाः पर्वतिथेरेकदिने औदयिकीत्वे एकदिने तदाराधना क्रियते तथा तस्या दिनद्वय औदयिकीत्वे दिनद्वये तदाराधनायाः कर्तव्यता न्यायौचित्यप्राप्ता। अत एव च तादृशतिथेः पूर्वदिने आराधनायाः निरोधाय तस्मिन् दिने तस्या औदयिकीत्वस्य प्रतिषेधं कृत्वा द्वितीयस्मिन्नेव दिने तद्व्यवस्थापनं संगच्छते, अन्यथाऽऽराधनायास्तिथेरननुचरीत्वे वृद्धायास्तिथेः पूर्वदिनेऽप्यौदयिकीत्वेऽपि तद्दिने तस्या अप्राप्त्या तत्प्रयासस्य वैयर्थ्यापत्तेः । नचाराधनायास्तिथ्यनुरोधेन प्रवृ. . त्यभ्युपगमे पूर्वतिथेर्दिनद्वय औदयिकीत्वे दिनद्वये एव तस्या आराधनमपरिहार्यमिति वाच्यं "वृद्धौ कार्या” इति वचसा पूर्वदिने परिसंख्याय द्वितीय दिन एव तस्या व्यवस्थापनात् । न च पाक्षिकप्रवृत्त्यभावेन तस्याः परिसङ्घ यानमनुचितमिति वाच्यम् “ एका पर्वतिथिरेकस्मिन्नेव दिने औदयिकी” इति जैनजगत्प्रसिद्ध यनुरोधेन टिप्पणेन दिनद्वये एकपर्वतिथेः निर्दिष्टस्याप्यौदयिकीत्वस्य विनिगमनाविरहेण पूर्वोत्तरदिनयोः पाक्षिकप्राप्तेरिव “ एका पर्वतिथिरेकत्रैव दिने आराध्यत्वेन सम्मता" इत्याहतप्रजाप्रसिद्धयनुरोधेन आराधनाया अपि पाक्षिकप्राप्तिसम्भवात् , पताकाया एकादशे पृष्ठे “ उभयत्राप्यौदयिकीत्वसत्त्वाद् दिनद्वयेऽपि आराधनं पाक्षिकतया प्राप्तम्" इति वदता पताकाकृता तत्स्वीकाराच्च ।। ___ वस्तुतस्तु समुच्चित्य प्राप्तिनियतायाः परिसंख्यायाः पाक्षिकप्राप्तिस्थले समर्थनमत्यन्तमुपहासास्पदम् । अस्मिन्नेव प्रकरणे एकादशे पृष्ठे तत्र “वृद्धौ कार्या तथोत्तरा" इत्यनेनोत्तरस्या औदयिकीत्वबोधनपूर्वकं पूर्वस्या औदयिकीत्वं व्यावय॑ते । औदयिकीत्वाभावाच्च सा अपर्वतिथिः सम्पद्यते। "तत्पूर्ववर्तिनी सप्तम्येवौदयिकी द्विः सूर्योदयस्पर्शिनीति सैव वृद्धा” इति यत् पताकाकृतोक्तम् , तदत्यन्तमसत् , उत्तरस्याः पूर्वस्याश्च तिथेरेकतया उत्तरस्या औदयिकीत्वस्य द्वितीयस्यास्तद्राहित्यस्य चासम्भवात् । उत्तरदिने तत्तिथेरौदयिकीत्वं पूर्वदिने चौदयिकीत्वमित्यर्थे तात्पर्यमित्यपि वचनमनुचितमेवः ज्यौतिषप्रतिकूलप्रतिपादने तद्वचस्तात्पर्यवर्णनायाः वर्णितरीत्या असङ्गतत्वात् , ज्यौतिषापेक्षया धर्मशास्त्रत्वाद् बलवत्तया तद्वचस्तद्विरुद्धाभिधाने न क्षीणशक्तिकमित्यपि कथनं न शोभनं ज्यौतिषाविरोधेनोपपत्तिसम्भवे तद्विरोधेन धर्मशास्त्रस्याप्यर्थवर्णनाया अवाञ्छनीयत्वात् । यथा च तदविरोधेनापि तद्वच उपपद्यते तथा सिद्धान्तव्याख्योपन्यासे प्रदर्शयिष्यते । “औदयिकीत्वाभावाच्च सा अपर्वतिथिः सम्पद्यते” इत्यपि मतिः पताकाकारस्य दुर्मतिरेव, पूर्वोत्तरदिवसीयायास्तस्या अभिन्नतया उत्तरदिनेऽपि तस्या अपर्वतिथित्वापत्तेः, पूर्वदिनेऽनौदयिकीत्वेन तद्दिने साऽपर्वतिथिः सम्पद्यत इत्यर्थो विवक्षित इत्यपि वचो न चारु, उक्तप्रकारेण पूर्वदिनेऽपि तस्या औदयिकीत्वाभावबोधने तद्वचसोऽसामर्थ्यन गणितेन बोधितस्य तस्यास्तदिने औदयिकीत्वस्याक्षुण्णत्वात् , पर्वतिथित्वेऽष्टमीत्वाद्यन्यतमवत्ताया एव तन्त्रतया औदयिकीवाभावप्रयोज्याभावप्रतियोगित्वायोगाच्च, अन्यथा-क्षीणाष्टम्यादौ तदभावात् पर्वतिथित्वाभावस्य सम्पन्नतया Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552