Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 424
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્ધતિથિભાસ્કર] सा च समितिस्तदनुकूलामखिलां सामग्री सङ्कलय्य तथा सघृणेनाक्ष्णा निराकृतं पुण्यपत्तनस्थविद्वद्वैद्यश्रीपरशुरामशर्मसम्भवं निर्णयपत्रं तन्निन्दकं तस्याः रहस्यमित्रं पं० श्रीतुलाकृष्णझाशर्मजातम् आगमानुसारिमतव्यवस्थापनम् एतन्निखिलोपजीव्यं जैनाचार्ययोः श्रीसागरानन्दसूरिश्रीराम चन्द्रसूरिमहाशययोस्तदुभयवाक्यारूढं मतभेदश्च सुचिरं समीक्ष्य जैनागमसदाचारानुसारेण तस्याः जैनोपग्रहणयोग्यतानिश्चये प्रचुर परिश्रम्य च तांजैनजनग्रहणानर्हामेव वक्ष्यमाणप्रकारेण निर्धारयति निरूपयति च पर्वतिथीनां क्षयवृद्धिविषये शास्त्रीय सिद्धान्तं निरस्यति च नियुक्तिकां कदाचारप्रवर्तिकामसत्तन्त्रमूलिकां परकथाम् । वाराणस्याः विशिष्टविद्वद्वर्गेण वरिष्ठतया गण्यमानान् व्याकरणस्य, साहित्यस्य, न्यायमी. मांसादिसमग्रदर्शनशास्त्रस्य, ज्यौतिषस्य, धर्मशास्त्रस्य, पूज्यतमस्य वेदराशेः, इतिहासस्य, प्राकृतादिभाषाभाण्डारस्य च प्राच्यप्रतीच्यपद्धतिभ्यां सर्वाङ्गीणं पाण्डित्यं दधानान् काशीकलशायमानान् पण्डितप्रवरान् सदस्यतया संगृह्णन्ती समितिरियञ्चैतद् विचारयति यदा जैनपर्वतिथीनां क्षयवृद्धिविषयके प्रकृते विवादे निर्णयार्पणाय उभयपक्षाभ्यां राजनगरस्य प्रधानतमश्रेष्ठिनो भारतस्य राज्यसंघेन जनवर्गेण च सम्मानितस्य स्वपरराष्ट्रप्रतिष्ठागरिष्ठस्य श्रावकधुर्यश्रीकस्तूरभाईलालभाईमहाशयस्य द्वारेण कश्चन मध्यस्थो निरवाचि तदा तदीयनिर्णयस्य द्वाभ्यामेव पक्षाभ्यां माननमुचितमावश्यकञ्चासीत् । परं यदि परेण पक्षण तन्निर्णयेऽविश्वासकारण किञ्चिदासादि तदा पुनर्निर्णयगवेषिणा तेन पक्षान्तरसहयोगेनैव कस्यचित् प्रतिष्ठिततरपण्डितान्तरस्य समित्यात्मनः कतिपयविद्वत्समवायस्य वा निर्वाचनं न्याय्यं धर्म्यञ्चासीत् परं पराजितपक्षण तथा नाकारि किन्तु गृहीतमताविष्टतया पक्षान्तरापेक्षामनवेक्ष्यैव स्वात्मनो मनोनीतः कथितो जनो न्ययोजि । स च जनो निजनियोजकाभिप्रायानुसारिणी “शासनजयपताकाम्” विनिर्माय स्वकीयविनयपरिचयप्रार्थनादिवलेन बहूनां सम्प्रदायान्तरोदन्तसंवेदनरसरहितानां वाराणसेयानामन्येषाञ्च विदुषां हस्ताक्षराणि संगृह्य च स्वात्मानमनृणमकार्षीत् । इत्यतः समितिरियं पराजितपक्षस्य कार्यमिदन्नितान्तन्निन्दनीयं घोषयति न पारयति चेदं निश्चेतुं यत् पक्षद्वयं निर्वाचितस्य विदुषो निर्णयं पक्षकपातिनं प्रथयन् पराजितः पक्षः स्वेन केवलेन वृत्तस्य पुंसो निर्णयं सकलजैनजनतायाः विश्वासभाजनं कथं कर्तुं निरचैषीत् ? अतो निजनिर्णये कृतनिर्भरा समितिः महता सौहार्दैन जैनजनेभ्यस्तदागमानां तथ्यं पथ्यं च सन्देशमर्पयन्ती प्रस्तुते विषयेऽन्यथावादिवर्ग प्रत्यक्षशास्त्रार्थकथापथेऽवतरीतुं सोत्साहमाह्वयति । अहन्तु सुदृढ़ विश्वसिमि यत् समितेनिर्देक्ष्यमाणं निर्णयं निर्दोषतया, परिपूर्णतया, जैनागमप्रतिष्ठापरित्राणप्रवणतया, मध्ये विच्छिन्नस्य जैनशास्त्रसम्मतप्राचीनसदाचारस्य पुनः प्रतिष्ठापकतया च विचाराचारसम्पदवदातस्सकलश्रीजैनसङ्घो वैमत्यत्यागेन सम्भावयिष्यति, यश्च तदन्तगतो वर्गो हितमपीदं न श्रोष्यति स समितेर्वादाह्वनिमन्त्रणमङ्गीकुर्वन्नात्मनः प्रतिभटान्नूनं न चिरञ्चाभिमुखीकरिष्यतीति। शास्त्रार्थमहाविद्यालयः । समितिसंयोजयितुः मीरघाट, काशी आश्विनी २००६ वै० श्रीराजनारायणशुक्लस्य For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552