Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 187
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५.८ यतोऽमी प्रत्ययाः कार्यभूताः सन्तः कारणमात्रस्यैवानुमापका: । न दिग्द्रव्यलक्षण कारणविशेषस्य । तत्र च सिद्धसाध्यता । तेषामाकाशलक्षणकारणपूर्वकत्वाभ्युपगमात् । तस्यैव दिगिति नामान्तरकरणे नाम्न्येव विवादो नार्थे । दिशस्ततो द्रव्यान्तरत्वासिद्धेः । न च दिग्द्रव्यासंभवे क प्राच्यादिव्यवहारः स्यादित्यभिधातव्यम् । आकाश - प्रदेशश्रेणिवेवादित्योदयादिवशात्प्राच्यादिव्यवहारोपपत्तेः । तथा चैषां न निर्हेतुकत्वं स्यात् । तथाभूतप्राच्यादिदिक्संबन्धाच्च मूर्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषस्योत्पत्तेर्न परस्परापेक्षया मूर्तद्रव्याण्येव तद्वेतको येनैकतरम्य पूर्वत्वासिद्धिः । तदसिद्धौ चैकतरस्य पूर्वत्यासिद्धिरितीत१० राश्रयत्वेन पूर्वापरप्रत्ययाभावः स्यात् । ननु मूर्तद्रव्येषु पूर्वादिप्रत्यय स्याकाशप्रदेशश्रेणिहेतुत्वे आकाशप्रदेशश्रेणावपि तत्प्रत्ययम्य किं हेतुत्वं स्यादिति चेत् । स्वरूपहेतुत्वमेवेति त्रूमः । नत्प्रदेशपङ्क्तेः स्वपररूपयोः पूर्वापरादिप्रत्ययहेतुम्वरूपत्वात् । प्रकाशस्य स्वपररूपयो: प्रकाशहेतुस्वरूपवत् । कथमन्यथा दिकप्रदेशेष्वपि तत्प्रत्ययोत्पत्तिः १५ स्यात् । तत्र हि पूर्वापरादिप्रत्ययोत्पत्तिः स्वभावतो दिन्द्रव्यान्तरांपे शया परम्परापेक्षया वा स्यात् । यदि स्वभावतस्तदा तत्प्रत्ययपरावृत्तिन स्यात् । यत्र हि दिक्प्रदेशे पूर्वप्रत्ययहेतुत्वं तत्र तदेव नापरप्रत्ययहेतुत्वं स्यात् । यत्र च तन्न तत्र पूर्वप्रत्ययहेतुलमिति । अस्ति च तत्परावृत्तिः। यत्र हि दिक्प्रदेशे विवक्षितप्रदेशापेक्षया पूर्वप्रत्ययहेतुत्वं दृष्टं तत्रैवा२. न्यप्रदेशापेक्षयाऽपरप्रत्ययहेतुत्वम् । तदाह 'प्राग्भागो यः मुराष्ट्राणां मालवानां स दक्षिणः । प्राग्भागः घुनरेतेषां तेषामुत्तरतः स्थितः ॥ इति । दिग्द्रव्यान्तरापेक्षया तत्र तत्प्रत्ययहेतुत्वेऽनवस्था। तत्रापि तत्प्रत्ययहेतुत्वस्यापरदिग्द्रव्यहेतुत्वप्रसंगात् । परम्परापेक्षया च तत्प्रदेशानां २५ तत्प्रत्ययहेतुत्वेऽन्योन्याश्रयानुषङ्गः । ' सवितुमरुप्रदक्षिणमावर्तमान १ वै. द. प्र. पा. भा. पृ. २९ पं. ४ । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284