Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयत्तत्त्वालोकालङ्कारः
यथा करिकेसरनिकुरम्बमिति । न च कारणादभिन्नत्वं कार्यस्यासिद्धं तत्वसाधकानुमानसद्भावात् । तथा हि- ने पटस्तन्तुभ्यो भिद्यते तद्धर्मत्वात् । यद्यतो भिद्यते तत्तस्य धर्मो न भवति । यथा गौरवस्य धर्मश्च पदस्तन्तूनां तस्मात्तेभ्यो न भिद्यते । यथा तन्तुपटौ ५ परस्परं न भिद्येते । उपादानोपादेयरूपत्वात् । यौ पुनर्भिद्येते न तानुपादानोपादेयरूपौ यथा घटपटौ । इतथानर्थान्तरत्वं तन्तुवयोः संयोगप्राप्त्यभावात् । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरोरप्राप्ति यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती स्तः । तस्मान्नार्थान्तरत्वम्' इति । तदेवमभेदे सिद्धे तन्तव एव तेन १० संस्थानभेदेन परिणताः पट इति स्वात्मक्रियानिरोधबुद्धिव्यपदेशार्थक्रियाभेदाच नैकान्तिकं भेदं साधयितुमर्हन्ति । एकस्मिन्नपि तत्तद्विशेषाविर्भवतिरोभावाभ्याभयामविरोधात् । यथा कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भवन्ति । ननु कूर्मस्तदङ्गानि चोत्पद्यन्ते ध्वंसन्ते वा । एक१५ मेकस्या मृदः सुवर्णस्य वा कुटकटकादयो विशेषा निःसरन्ति, आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः । यथाह व्यासः -- 'नासतो विद्यते भावो नाभावो विद्यते सतः ||' इति । तथा च कूर्मः स्त्रावयवेभ्यः संकोचत्रिकासिभ्यो न भिन्नः । एवं कुटकटकादयो मृत्सुवर्णादिभ्यो न २० भिन्नाः । एवं चे तन्तुषु पट इति बुद्धिव्य देशश्व । ययेह
वने तिलका इत्युपपन्नः । न चार्थक्रियामेदो भेदमापादयत्येकस्यापि नानार्थक्रियस्य दर्शनात् । यथैक एव चन्हिदहकच पावकचेति । तस्मात्प्रत्येकं तन्तरः प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपट भावा: प्रावरित्र्यन्ति । न च भेत्स्यन्ते । २५ स्यादेतदाविर्भावः पटस्य कारणव्यापारात्प्राक्सनसन्वा । स
१ सो. त. कौ. पू. ६४. पं. ८ । १ भ.गी.२११६॥
" Aho Shrut Gyanam"
९८२
[ परि. ५. सु. ८

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284