Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 273
________________ १८४ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ रसू. बुद्धयादय उपात्तमुपात्तं देहं त्यजन्ति देहान्तरं चौपाददत इति तेषां परिस्पन्दः । शरीरपृथिव्यादीनां च परिस्पन्दः प्रसिद्ध एव । न पुनरेवमव्यक्तं, यद्यपि चास्याप्यस्ति परिणामलक्षणा क्रिया तथापि परिस्पन्दो नास्ति । अनेकं च व्यक्तं महदादिसंचयरूपत्वात् । अव्यक्तं ५ पुनरेकमन्यथा बहूनां प्रधानानामीश्वराणामिव परस्परमतभेदेन कार्यारम्भे प्रवर्तमानानां काचव्यान्न( १ ) कार्यनिष्पादकत्वं स्यात् । आश्रितं च व्यक्तं यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । नन्वेवमव्यक्तं 'अभेदेऽपि कथंचिद्भेदविवक्षाश्रयाश्रयिभावो यथेह बने तिलकाः' इत्यत्र लिङ्गं च व्यक्तं लीनं सूक्ष्मं स्वकारणं गमयतीति लयं गच्छतीति वा । १० प्रलये हि महदादि यथास्वं कारणेघु लीयते न निरन्वयं नश्यति । न त्वेवं प्रधानं तद्गम्यकारणान्तरम्यासंभवात् । सावयवं च व्यक्तमवयवनमवयवो मिश्रणं संयोग इति यावत् । अवाप्तिपूर्विका प्राप्तिश्च संयोगस्तेन सह वर्तत इति सावयवम् । तथा हि- पृथि व्यादयः परस्परं संयुज्यन्ते । एवमन्येऽपि । न तु प्रधानस्य १५ बुद्धयादिभिः संयोगस्तादात्म्यात् । नापि सत्त्वरजस्तमसां परस्पर संयोगोऽप्राप्तेरभावात् । परतन्त्रं च व्यक्तं बुद्ध्या हि स्वकार्येऽहंकारे जनयितव्ये प्रकृत्या पूरऽयेक्ष्यते । अन्यथा क्षीणा सती नालमहंकारं जनयेतुमिति स्थितिः । एवमहकारादिभिरपि स्व कार्यजनन इति सर्व स्वकार्यजनने प्रकृत्यापूरमपेक्षते । तेन २० प्रकृति परामपेक्षमाण कार्योपक्रमणे परतन्त्रं व्यक्तम् ।' नन्वेश्म व्यक्तं कारणान्तरासंभवेन । तस्य स्वतन्त्रत्वात् । न चैवमनयोरात्यन्तिको भेद एव । ' त्रिगुणमविवकिविषयः सामान्यमचेतनं प्रसवधर्मि | व्यक्तं तथा प्रधानं तद्विपरीतं तथा च पुमान् ' ॥ इति लक्षणाभेदात्तयोरभेदस्थाप्युपपत्तेः । तथा हि त्रिगुणमिति त्रयो १ सां. त. कौ. पृ. ७१ पं. २॥ २ सां. त. काँ. पृ. ७१ पं. ७ ३ सां. का. ११।४ सां. त. कौ. पृ. ७२ पं. १४॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284