Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 278
________________ परि. ५ सू. ८ } स्याद्वादरत्नाकरसहितः प सर्वथैवाभेदः साध्यते तदा प्रत्यक्षबाधित्वं पक्षदोषः संज्ञासंख्यास्वलक्षणादिविशेषेण कार्यकारणयोर्भेदस्यापि प्रत्यक्षेण प्रतीयमानत्वात् । कथंचिदभेदसाधने तु सिद्धसाध्यता कार्यकारणयोः कथंचिदभेदस्य जैनरभिमतत्वात् । यच्चान्यदुक्तम् ' असदुत्पद्यते' इत्यत्रापि मते केयमसतामुत्पत्तिः सत्यसती वेत्यादि । तदप्येकान्तवादिनां दूषणम् । ५ न पुनरेकान्तकर्मावरणसुरक्षितत्रुद्धिशरीराणाम् । न खलु म्याद्वादिभिः सर्वथा सतोऽसतो वा कार्यस्योत्पत्ति: स्वीक्रियते । किं तर्हि कथंचित्सदेव सतः । तस्माञ्चोपत्तिनैकान्ततो व्यतिरेकिणी काचिदस्तीति कथं तस्या न हि परिणामान्तरं स्वीकुर्वाण: पदार्थ उत्पन्न इत्यभिधीयते । प्रसाधितं चाधस्तादुत्पादव्ययध्रौव्यात्मकत्वं समस्तार्था- १० नामित्यलमतिप्रसंगेन । किं च सत्कार्यवादाभ्युपगमे शास्त्रप्रणयनं हेतुप्रकाशनं च शिप्यान्प्रति भक्तः किमर्थमिति कथनीयम् । संशयोच्छित्तिनिश्चयोत्पत्त्यर्थमिति चेत् । कथं तयोरुच्छित्युत्पत्ती म्याताम् । अथ हेतूपन्यासादिना संदेहस्य तिरोभावमा विधीयते नात्यन्तमुच्छित्तिर्नाभावो विद्यते सत इति प्रतिज्ञानात् । निर्णयम्याप्याविर्भाव. १५ मात्रं तेन क्रियते न पुनरविद्यमानम्योत्पत्तिर्नासतो विद्यते भाव इति स्वीकारादिति चेत् । तदपि स्वरुचिविरचितदर्शनप्र .... .... व पुनः संशयाविर्भावप्रसक्तेः । तथा च पञ्चविंशतितत्त्वनिश्चयाभावाद्दत्तो मोक्षाय निवापाञ्जलिः । एवं चेदमप्यसंगतम् । २० 'पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसन् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ।।' आविर्मावश्च सन्नसन्वा न संभवीत्यभिहितमिति निर्णयम्याप्याविर्भावमात्रं तेन क्रियते .... .... इत्याद्यापि परास्तम् । अथ शास्त्रप्रणयनसाधनप्रयोगयोः २५ १निबाम:-पितृदानम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284