Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ म. ८ ] स्याद्वादत्नाकरसहितः वति । पञ्च श्रोत्रत्वक्चक्षुर्जिव्हाघ्राणलक्षणानि बुद्धये बुद्धिमभिव्यक्तुमिन्द्रियाणि वाक्पाणिपादपायपस्थसंज्ञानि कर्मणे कमाभिव्यक्तये । इन्द्रियाणीति मनः संकल्परूपं ग्रामेऽहं प्रस्थितः सुवर्णस्य प्राप्तिभविष्यति द्रव्यस्य चेत्यादिसंकल्पवृत्तिभूतादेस्तु तमःप्रधानादहङ्कारात्पञ्च तन्मात्राणि प्रादुर्भवन्ति । तेभ्यः षोडशक- ५ गणादपकृष्टेभ्यः सूक्ष्मशब्दस्पर्शरूपरसगन्धस्वभावम्यः पञ्च भतान्याकाशादीन्याविर्भवन्ति । तत्र शब्दतन्मात्रादाकाशं शब्दगुणं, शब्दतन्मात्रसीहतात्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुगः, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्माबादापः शब्दस्पर्शरूपरसगुणाः, शब्दस्पर्शरूपरसतन्मात्रसहिताद्ग- १० न्धतन्मात्राच्छब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । मात्रग्रहणं च भूतत्वाभावज्ञापनार्थं शब्दतन्मात्रादिषु विज्ञेयम् । भूतस्वभावानि शब्दतन्मात्रादीनि न भवन्ति । भतकारणानि तु भवन्तीति भावः । एतानि च योगिनामेव श्रोत्रादिभिरिन्द्रियैः परिच्छिद्यन्ते । सक्षमस्वभावाक्रान्तत्वात् । अस्मदादीनां तु श्रवणादी- १५ न्द्रियैः स्थूला एव शब्दादयो विषयी कर्तुं शक्यन्त इति । अयं च महदादिप्रपञ्चः प्रकृतौ सन्नेवाविर्भावं प्रतिपद्यते ।
"असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ।।' इति वचनात् । अस्वार्थ:-असदकरणादिति । असञ्चेत्कारण. २० व्यापारात्पूर्व कार्य घटादि तर्हि नाम्य सत्त्वं शक्यं कर्तुम् । न हि नीलं शिस्पिसहस्रेणापि पीतं शक्यं कर्तुम् । सदसत्त्वे घटस्य धर्माविति । ....
दभिन्नत्वाद्यत्पुनः सन्न भवति तत्कारणादभिन्नमपि न भवति । २. १ सांत, कौ. पृ. १.. । २ सां. का. ९!
"Aho Shrut Gyanam"

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284