Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ कस्मादित्यत उक्तम् 'चलम्' इति । तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् । इतवाव्यक्तमस्तीत्याह -'शक्तितः प्रवृत्तेश्च' इति । कारणशक्तितः कार्य प्रवर्तत इति सिद्धम् । अशक्तात्कारणात्कार्यस्यानुपपत्तेः शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । न हि ५ सत्कार्यपक्षे कार्यस्याऽव्यक्तताया अन्यस्यां शक्तावस्ति प्रमाणम् । अयमेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेते धेव तैलमस्त्यनागतावस्थं न सिकतासु' इति । कारणकार्यविभागाच्च कारणकार्ययोविभाग इदं कारणमिदं कार्यनिति बुद्धया
द्विधावस्थापनं सोऽवस्थितैकभावपूर्वको दृष्टः । यथा स्थासकोशादि१० कारणकार्यविभागोऽवस्थितैकमृत्पूर्वकः । अस्ति चायं महदादिषु
तस्मादवस्थितैकभावपूर्वकः । यश्चावस्थित एको मावस्तदव्यक्तम् । तथा- अविभागाद्वैश्वरूप्यस्य । विश्वरूपमेव वैश्वरूप्यमिति स्वार्थिकः ष्यञ् । इह यद्विश्वरूप नानाप्रकारं तस्याविभागो दृष्टः । तद्यथा मृदपेक्षया
घटघटीशरावोदश्चनादीनां विश्वरूपाश्च महदादयस्ततस्तेषामप्यविभागेन १५ भवितव्यम् । योऽसावविभागस्तदव्यक्तम् । एवं प्रमाणतः प्रसिद्धसत्ताका प्रकृतिरनेन क्रमेण तत्त्वसृष्टौ प्रवर्तते ।। 'प्रकृतेमहांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पश्चभ्यः पञ्च भूतानि ॥' इति ।
प्रथमं हि प्रकृतेमहानेको व्यापको विषयाध्यवसायरूप आसर्ग२० प्रलयस्थायी बुद्धयपराधीनः प्रभवति । स चास्मादृशामसंवेद्यस्वभावः ।
ततस्तु याः प्रतिप्राणिविभिन्ना बुद्धिवृत्तयो निःसरन्ति ताः संवेद्यस्वभावाः । ततश्चाहंकारस्तथाविधो जलनिधेरिख प्रतिप्राणिविभिन्नस्तैस्तैः स्थलोऽहं सुरूपोऽहमित्याद्यहंकारतरङ्गविशेषः प्रसरति । स चा.
हक्कारो वैकृतो भूतादिश्चेति प्रथमतो द्विप्रकारः प्रसरति । तत्र वैकृता२५ त्सत्त्वप्रधानादहंकारात्प्रकाशरूप एकादशविध इन्द्रियगणोऽयं प्रादुर्भ
सां. का. २२॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284