Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 268
________________ परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः कार्य करणं शक्तिरिति । त्रेधा हि जगत्, स्थितं कार्य तन्मात्रादिकरणं खादिशक्तिर्गुणत्रयमित्यभिधानात् । न हि कार्यकरणशक्तेर्व्यतिरिक्तो जगत्प्रपञ्चोऽस्ति । तत्र कार्य दशविधम् । तन्मात्रमहाभूतसंज्ञकं करणं त्रयोदशविधं बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणबुद्धयहंकारभेदात् । शक्तिश्ाननुभूयमानस्वभावा प्रकृतिरेकैच । मूलोपादानभूततत्सद्भावावेदकं तु- ५ ‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ।।' इति । हेतुपञ्चकं परिमितत्वं ह्येककारणपूर्वकस्थैव प्रतिपन्नम् । यथा घटघटीशरावोदञ्चनाइरेकमृव्यपूर्वकम्य । परिमितं चेदं व्यक्तमेका बुद्धिरेकोऽहंकारः पञ्च तन्मात्राणि, एकादशेन्द्रियाणि पञ्चभूतानि । १० अत एतेषां भेदानां परिमितम्वभावानां यत्तदेक कारणं तदप्रधानमेवेति तदस्तित्वसिद्धिः । समन्वयाच्च यग्रजातिसमन्वितं हि यत्तत्तदात्मककारणकार्य यथा घटादयो विशेषा मज्जातिसमन्विता मृदात्मक कारण कार्याः सत्त्वरज-तमोजातिसमन्वितं चेदं महदादि व्यक्तं तत. स्तदात्मकप्रधानपूर्व कमिति सत्त्वस्य हि प्रसादलाघवाद्वर्षप्रीत्यादिकं १५ कार्थ, रजसस्तापशोषोपष्टम्भावगादिकं, तमसो विषाददैन्यबीभत्सगौरखावरणादिकम् । तदुक्तम् - 'सचं लघु प्रकाशकमिष्टमुपष्टम्भक चलं रजः । गुरु वरणकमेव तमः प्रदीपचार्थतो वृत्तिः।। इति। अस्य व्याख्या- 'सत्वमेव लघु प्रकाशकामिष्टं सांख्याचार्यः । तत्र कार्यस्योद्गमनहेतुर्मो लाघवं गौरवप्रतिद्वन्दि । यतोऽनेरूद्मज्वलनं भवति । २० तदेव लाघवं कस्यचितिर्यपवनहेतु यथा वायोः । एवं करणानां वृत्तिपटुत्यहेतुर्लाघवं गुरुत्वे हि मन्दानि स्युः । प्रकाशकत्वं तु सत्वस्य स्पष्टप्रतिप्रतिहेतुत्वमुच्यते, सत्चतमसी स्वयमाक्रियत्वास्वकार्यप्रवृत्ति प्रत्यक्सीदती रजसोयष्टभ्येते । अवसादात्मच्याव्य स्वकार्य उत्साहं प्रयत्न कार्येते तदिदमुक्तम् 'उपष्टम्भकम्' इति । २५ १ सा. का. १५ । २ सां. का. १३ । ३ सां. त. को. १३। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284