Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ म. ८]
स्याद्वादरत्नाकरसहितः
९१७
परिगणने कारणम् । न्यायप्रवृत्त्यङ्गत्वात्तम्य । परिगणने चानुग्रहेच्छापरिभवाभिलापलाभपूजाख्यात्यादेरपि परिगणनप्रसंगः । तत्प्रत्यङ्गत्वाविशेषात्प्रयोजनस्यापि लौकिकस्य तावत्कृष्यादिप्राप्तिलक्षणस्य मुमुक्षुशास्त्रे पदार्थत्वेन भणनमननुगुणम् । तज्ज्ञानस्य निःश्रेयसाधिगमन्यभिचारोपलम्भात् । लोकोत्तरस्यापि तस्य ५ निःश्रेयसाधिगमलक्षणस्य पदार्थत्वेन कथनं न तथ्यम् । भवदभ्युपगतनिःश्रेयसस्य निराकरिष्यमाणत्वेन तज्ज्ञानतदधिगमयोर. नुपपत्तेः । दृष्टान्तस्याप्यनुमानान्तर्गतत्वेन पृथक्परिसंख्यानमनुपपन्नम्। अन्यथा लिङ्गादेरवि तत्प्रसंगः । सिद्धान्तस्तु प्रतिज्ञातो नार्थान्तरम् । अतोऽस्य पृथग्लक्षणाभिधानमनर्थकम् । सवैरेव हि शास्त्रकारैरपसि. १० द्धान्तं ब्रुवाणो निगृह्यते । न च सिद्धान्तलक्षणप्रतिज्ञातः पृथततः क्रियते । तस्या एव सिद्धान्तत्वेन सर्वेषां सुप्रसिद्धत्वात् । अवयवानां च पदार्थसंख्यायां परिगणनेऽनुमानस्यापि पृथक्परिगणनप्रसंगः । तस्य प्रमाणान्तर्गतत्वात् । पृथगपरिगणनेऽवयवानामनुमानात्मकत्वान्न पृथक्परिंगणनं स्यात् । प्रधानभूतं चानुमानं प्रमाणान्तर्गतत्वान्न पृथ- १५ गुपादीयते । तदन्तर्भूतास्त्ववयवाः पृथगुपादीयन्त इति महती प्रेक्षापूर्वकारिता । उपादानेऽप्येषामियत्तावधारणमयुक्तम् । यावद्भिर्विवक्षितार्थप्रतिपत्तिर्भवति तावतामेवोपादानाईत्वात् । सा च कचित्कियद्भिर्भवतीत्युदयनोऽपि पञ्चमाध्याये तात्पर्यपरिशुद्धौ- 'स्यादेतदेवं तर्हि दूषणस्यापि पश्चावयवप्रयोगप्रतिपाद्यता प्रामोति परार्थानु- २० मानात् ' इत्याशङ्कयाह- 'अतः परिषत्प्रतिवाद्यनपेक्षितत्वात्पञ्चावयवप्रयोगानभिधानमिति' इति । तस्य च प्रमाणविषयपरिशोधकत्वनुच्यते भवद्भिः। तच्च प्रमाणविषयतिरोधायकापनेतृत्वं संशयादिव्यवच्छेदेन तन्निश्वायकत्वं तद्हणे प्रवृत्तस्य प्रमाणस्याग्रेसरतया तत्स्वरूपविवेचनमात्रं वा । प्रथमयक्षे प्रतीतिविरोधः । घटा- २५ दितिरोधायकस्यान्धकारादेस्तादपनयनाप्रतीतेः । द्वितीयतृतीयपक्ष
"Aho Shrut Gyanam"

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284