Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 264
________________ परि. ५ सू.८] स्याद्वादरत्नाकरसहितः दैनैकान्तिकः । यथा नित्यः शब्दः प्रमेयत्वादिति । प्रत्यक्षागमवि. रुद्धः कालात्ययापदिष्टः, अबाधितपक्षपरिग्रहो हेतुप्रयोगकालमतीत्यासावपदिष्ट इति । अनुष्णोऽमिः कृतकत्वाद्धटवदिति प्रत्यक्षविरुद्धपक्षानन्तरप्रयुक्तत्वेन, ब्रामणेन सुरा पेया द्रवत्वाजलवादित्यागमविरुद्धपक्षान्तरप्रयुक्तत्वेन च कालात्ययापदिष्टः । विशेषाग्रहणा- ५ त्प्रकरणे पक्षे संशयो भवति । नित्यः शब्दोऽनित्यो वेति । तदेव विशेषाग्रहणं भ्रान्त्या हेतुत्वेन प्रयुज्यमानं प्रकरणसमो हेत्वाभासो भवति । अनित्यः शब्दोऽनित्यधर्मानुपलब्धेर्घटवन् । नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । 'अर्थविकल्पैर्वचनविघातलम् । यथा नवकम्बलो देवदत्त इत्यादौ । नवः कम्बलोऽभ्येति हि नूतन- १० विवक्षया कथिते परः संख्यामारोप्म निषेधति । कुतोऽस्य नव कम्बला इति । वायभिप्रेतवस्तुप्रतिषेवार्थसमर्थो जायमानो हेतुप्रतिबिम्चनप्रायः प्रसंगो जातिः । यथा हेत्वादिसंमतवाक्यार्थप्रतिषेधाय जायतेऽसमर्थः प्रसंगोऽयं स जातिरिति कथ्यत इति । ' सत्यवस्त्वप्रतिभासो विपरीतप्रतिभासश्च निग्रहस्थानम् ' । तत्कालानुचिता १५ क्रियेत्यर्थः । यहुक्तम्- 'निग्रहस्थानमित्याहुस्तकालानुचितां क्रियाम् ' इति । अत्र समाधीयते । यदुक्तम् – प्रमाणेत्यादि तदविचारितमनोहरम् । भवत्परिकलितानां प्रभाणादिषोडशपदार्थानां स्वरूपतः प्रमाणेन विचार्यमाणानामघटमानत्वात् । तथा हि- यस्ताबद्भवद्भिः सकलपदार्थानां गरिष्ठत्वात्प्रथमतः प्रमाणपदार्थः प्रति- २० पादितः स यथा स्वरूपतः प्रमान विचार्यमाणो नोपप यते तथा प्रत्यक्षादिप्रमाणस्वरूपनिरूपगावसरे प्रबन्धन प्रसाधितम् । अतो भवत्परि. कल्पितप्रमाणपदार्थस्याव्यवस्थितेः कथं तत्परिच्छेद्यत्वेनात्मादिप्रमेयतत्त्वमपि व्यवतिष्ठेत । यथा चात्मा नित्यव्यापित्वादिस्वभावो भवदभिमतो न युज्यते तथा षट्पदार्थपरीक्षावसरे प्रपञ्चितम् । शरीरं २५ १ न्या. मं. पृ. ८ पं, ५। २ न्या, में, पृ. ८ पं. ६३ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284