Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 265
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५सू. ८ स्वावयवेभ्यः सर्वथार्थान्तरभूतमवयविनिरासादेव निरस्तम् । भौतिकानि प्राप्यकारीणीन्द्रियाणि रूपादयस्तदर्था बुद्धयन्तरवेया बुद्धिरणुपरिमाणं मनश्चेति चतुष्टयमपि पुरैव पराकृतन् ! भवदभिमतवाङ्मनः कायानामव्यवस्थितेस्तद्वयापाररूपा प्रतिरप्यव्यवस्थितैव । कूटस्थ५ नित्यस्य व्यापकस्य निष्क्रियस्य चात्मनः कर्मसु प्रवर्तयितारो दोष अपि रागादयो न घटन्ते । परिणामिन्येवात्मनि तेषामुपपत्तेः । एतेन नित्यादिस्वरूपस्यात्मनः प्रेत्प्रभावोऽपि परास्तः । प्रवृत्तिदोषदूषणात्तजन्यं सुखदुःखोपभोगलक्षणं फलमपि दूषितम् । अनेन बाधना स्वरूपं दुःखमपि प्रत्याख्यातम् । अपवर्गश्च भवत्कलिमतो मोक्षस्वरूप. १० निरूपणप्रवट्टके विघटयिष्यते । तन्न द्वादशविधं प्रमेयमवतिष्ठते । अपि चास्य द्वादशविधत्वावधारणं तावत्येव प्रमाणव्यापारपरिसमातेः प्रयोजनपरिसमाप्तेर्वा स्यात् । आधः पक्षोऽनुपपन्नः । कालाकाशादिप्रपञ्चेऽपि प्रमाणव्यापारप्रतीतेः । न च तत्प्रपञ्चस्वैवात्रान्तर्भाव इत्यभि धातव्यम् । ततोऽस्यात्यन्तविलक्षणत्वात् । तथाविधानामप्येषामत्रा१५ न्तभावे आत्मन्येवाशेषार्थानामन्तर्भावात् । ब्रह्माद्वैतप्रसंगतो गता षोडशपदार्थकल्पना । द्वितीयपक्षेऽपि प्रयोजनस्यापवर्गलक्षणस्य नेतेष्वेव परिसमाप्तिः । तत्प्रसाधकानां दीक्षातपोध्यानादीनामत्र संग्रहाभावात् । तथा चानुपपन्नमिदमगादि जयन्तेन-- 'इत्येप षोड शपदार्थनिबन्यनेन | निःश्रेयसस्य मुनिना निरदेशि पन्थाः । अन्यस्तु सन्नपि पदार्थगणोऽपवर्ग मार्गोपयोगविरहादिह नोपदिष्टः।।' इति । पदार्थसंख्यायां संशयपरिंगगने च विपर्ययानध्यवसाययोरपि २५ परिगणनप्रसंगः । न्यायप्रवृत्त्यङ्गत्वमप्यनयोः संशश्वदनिवार्यम् । विपरीतानध्यवसितयोरपि प्रतिपाद्यत्वात् । ततो नैतदपि तस्यैक "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284