Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 267
________________ ९७८ प्रमाणनयतत्त्वालोकालङ्कारः (परि. ५ सू. ८ योरप्रमाणात्मकोऽसौ तथा तन्निश्चयं तद्विवेचनमात्रं च कुर्यात्पमाणात्मको वा । न तावदप्रमाणात्मकः । प्रमाणविषयस्याप्रमाणात्मना तेन परिशोधनानुपपत्तेः । यदप्रमाणं न तत्प्रमाणविषयपरिशोधकम् । यथा मिथ्याज्ञानम् । प्रमेयो वार्थोऽप्रमाणं च भवद्भिः परिकल्पितस्तर्क इति । तत्परिशोधकत्वे चास्य प्रमाणवप्रसंगः । यत्प्रमाणविषयपरिशोधकं तत्प्रमाणं यथानुमानादि । प्रमाणविषयपरिशोधकश्च भवद्भिः परिकल्पितस्तर्क इति ! अस्तु तर्हि प्रमाणात्मक एवासाविति चेत् । न । चत्वार्येव प्रमाणानीति प्रमाणसंख्याव्याघातप्रसक्तेः। निर्णयश्च प्रमाणस्य फलम् । तस्य च तस्मादेकान्तेन भिन्नस्य भवदभ्युपेतस्य १० फलपरिच्छेदे प्रतिषेध्यमानत्वान्नान पदार्थतया निर्देशः कर्तुं युक्त इति । वादजल्पवितण्डानां तु स्वरूपं वादलक्षणैककथाव्यवस्थापनावसरे निराकरिष्यते । हेत्वाभासानामपि पृथक्पदार्थतया परिंगगनं निष्प्रयोजनम्। अन्यथा प्रत्यक्षाद्याभासानामपि तथा परिगगनप्रसंगात्षोडशपदार्थ संख्याक्षतिप्रसंगः । प्रत्यक्षादिप्रमाणनिर्देशसामर्थ्यादेव तदामासानां १५ लब्धत्वादपरिगणने पञ्चलक्षणकहेतुनिर्देशसामर्थ्यादेव हेत्वाभासा नामपि लब्धत्वादपरिगणनमस्त्वार्यशपात् । छलं तु बालकीडाप्रायं न प्रामाणिकानां निःश्रेप्रसार्थिनामवलम्बितुचितमिति । जातिस्तु दूषणाभासस्वभावा हेत्वाभासैरेव संग्रहीतेति किमित्येभ्यः पृथक्कथ्यते । निग्रहस्थानं पुनरनन्तत्वान्नेयत्तयावधारयितुं शक्यमिति न तल्लक्षणमपि सोपयोगमिति । विस्तरस्तु छलजातिनिग्रहस्थानानां प्रत्येकदूषणं वादलक्षणैककथावस्थापनसमये प्रकाशयिप्यते । अभ्येत्यतः षोडशतत्त्वमार्गोऽप्ययं प्रमाणस्य न गोचरत्वम् । सांख्योक्ततत्त्वान्यपि चैव तर्क....णः परिभावयन्तु ।। ६९१ ।। तथा हि- एवममी प्रधानादीनि पञ्चविंशतितत्त्वानि व्यावर्ण यन्ति । प्रदधाति धारयति महदादीसांस्यतत्त्वपरीक्षणम् । विकारानिति प्रधानम् । तञ्च संक्षेपतस्विविध २५ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284