Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 260
________________ परि. ५२.८ ] स्याद्वादरत्नाकर सहितः " 'तत्परिच्छेद्यमात्मादि' द्वादशविधं प्रमेयम् । तथाच सूत्रम् - आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्' इति । 'तंत्रात्मा सर्वस्य सुखदुःखसाधनस्य द्रष्टा । सर्वस्याश्च सुखादिसंवेितेराश्रयत्वेन भोक्ता । तस्य भोगायतनं शरीरं भोगसाधनानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः ' । बुद्धिरुपलब्धि- ५ र्ज्ञानमित्यनर्थान्तरम् । सर्वथोपलब्धौ नेन्द्रियाणि प्रभवन्तीति । सर्वविषयं मनः । बाङ्गनःकायव्यापारः शुभाशुभ फलप्रवृत्तिरित्युच्यते, पुरुषस्य कर्मसु प्रवर्तयितारो रागद्वेषमोहा दोषाः । देहेन्द्रियादिसंघातस्य संघातान्तरग्रहणं प्रेत्यभावः । प्रवृत्तिदोषजनितः सुखदुःखोपभोगः फलम् | 'बोधनालक्षणं दुःखम् ' तस्य च यत्नेन परिहार्यत्वा- १० रूफलात्पृथगुपादानं शरीरादिनैकविंशतिभेदभिन्नेन दुःखेनात्यन्तिको वियोगोऽपवर्गः । एकविंशतिभेदास्तु शरीरं षडिन्द्रियाणि षडूविषया: 'पड्बुद्धयः सुखदुःखे इति । शरीरं दुःखायतनत्वाद्दः खम् । इन्द्रियाणि विषया बुद्धयश्च तत्साधकभावात् । सुखं दुःखानुषंगाद्दः खं स्वरूपत इति । ' नानार्थविमर्शः संशयः । ' संमानानेकधर्मोपपत्ते- १५ विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातच विशेषापेक्षो विमर्श: संशय: ' इति सूत्रकारवचनात् । स च वार्तिककारमते वा । तथा हि-- समानधर्मोपपतेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः । समानधर्मस्य स्थाणुपुरुषयोरूयतालक्षणस्योपपत्तेरुपलब्धेः । स च समानो धर्म उपलभ्यमानो न केवलः संशयहेतुः किं तूपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषांशे साधकबाधकप्रमाणाभावाद्विशेषापेक्षः स्थागुर्वा पुरुषो वेति विमर्शः संशयः । तथा " १ न्या. भै ५. ७ पं, २६ । २ गौ. ४ गो. सू. १।१।१५। ५ गौ. सू. ७ गौ.सू. १।१।२३ । ८ न्या. वा. ऽथुनोपलभ्यते ) सु. १1१|९| ३ गौ.सू. वा. भा. १|१|९| १।१।२१ । ६ न्या. मं. पृ. ७१.२६ ॥ पु. ८७ पं. १९ ( वार्तिकेऽक्षरमेदो " Aho Shrut Gyanam" ९७१

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284