Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 258
________________ परि. ५ सू. ८ ] स्थाद्वादरत्नाकरसहितः र्थान्तरत्वसिद्धिः । सिद्धं नानास्वभावं सत्त्वं सकृन्नार्थविशेषणं तद्वत्समवायोऽस्तु । अनेन द्रव्यत्वादिसामान्यं द्वित्वादिसंख्यानं पृथक्त्वादिकमवयविद्रव्यमाकाशादि विभुद्रव्यं च स्वयमेकमपि युगपदनेकार्थविशेषणमिति निरस्तम् । सर्वथैकस्य तथाभावविरोधसिद्धेरिति । समवायस्य नानात्वेऽनित्यत्वप्रसंगः संयोगवदिति चेत् । न । आत्म- ५. भिर्व्यभिचारात्कथंचिदनित्यत्वस्येष्टत्वाच्च । किं चायं सम्बन्धिभ्योऽत्यन्तभिन्नमूर्तिः सन्समवायः कथं तैः सह सम्बध्येत यतस्तद्विशेषणतया चकास्यात् । न ह्यसम्बद्धं विशेषणं नाम । अतिप्रसंगात् । अभावस्यापि कथञ्चिदविष्वग्भूततया प्राक्प्रसाधितस्य विशेषणतोपपत्तेः। ततोऽयमपि विशेषणं सन्केन सम्बन्धेन सम्बध्येत ! न तावत्संयोगेन । १० तस्य गुणत्वेनाद्रव्यस्वभावे समवाये संभवाभावात् । नापि समवायान्तरात् । तस्यैकरूपतयाभ्युपगमात् । नापि विशेषणविशेप्यभावात् । यतः कोऽयं विशेषणविशेष्यभावो नाम । षट्पदार्थेभ्योऽतिरिक्तोऽनतिरिक्तो वा । अतिरिक्तो भावरूपोऽभावरूपो वा । न तावद्भांवरूपः । घडेव पदार्था इति नियमविघातप्रसंगात् । नाप्यभावरूपः । अनभ्युपंगमात् । अनतिरिक्तोऽपि किं द्रव्यरूपो गुणादिस्वभावो वा । नाद्यः पक्षः । गुणाद्याश्रितत्वाभावप्रसंगात् । अत एव न गुणकर्मस्वभावोऽपि ! नापि सामान्यादिरूपः । तेषु तदभावप्रसंगात् । न हि सामान्यादी सामान्यादित्रयं संभवति । अनवस्थादिदोषोपनिपातात् । ततो नायं विशेषणविशेष्प्रभावः परस्य कश्चिद्धटते । अस्तु वायं .. कश्चित्तथापि समवायसमवायिभ्यो यद्यभिन्नस्तदा समवायसमवाथिनां तादात्म्यसिद्धिरमिन्नात् । अभिन्नानां तेषां तद्वद्भेदविरोधाद्भिन्न एवेति चेत् । नन्वयमप्यत्यन्तं भिन्नः कुतस्तत्रैव नियम्येत । समवायाच्छेदितरेराश्रयः । सिद्धे हि समवायनियमे ततो विशेष्यभावनियमसिद्धिः। तत्सिद्धौ च समवायनियमसिद्धिरिति । परस्माद्विशेष्यविशेषणभावादिति २५ चेत् । तर्हि पर्यनुयोगोऽनवस्था च । सुदूरमपि गत्वा स्वसंबन्धिभिः "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284