Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 261
________________ [ परि. ५ सू. ८ 1 समानजातीयमसमानजातीयं वानेकमनेकस्मात् व्यावृत्तो धर्मोऽनेकधर्मस्तदुपपतेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः । यथाशब्देन विभागजत्वदर्शनात् । किमयं गुणो द्रव्यं कर्मेति विभागजत्वं सजातीये कचिदुणे विजातीये वा द्रव्ये कर्मणि च ५ न वर्तते । अतः संशयहेतुः । किं भूतस्यास्य विभागजत्वमिति । तथा विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः । यथा, अस्त्यात्मेत्येके । नास्त्यात्मेत्यपरे । न च सद्भावासद्भावौ सममेकत्र भवतः । तस्मात्तत्त्वानवधारणमस्त्यात्मा नास्त्यात्मेति वा संशयः । भाष्यकारमते तूपलध्यनुपलब्धी पृथक्संशयकारणमिति पञ्चधा. १० संशयः । तथा हि- उपलब्ध्यनुपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेपापेक्षः संशयः । यथोदकं सदुपलभ्यते तडागादिषु मरीचिषु चाविद्यमानम् । इदानीं कचिदुदकोपलब्धौ तत्त्वव्यवस्थापकप्रमाणस्यानुपलब्धेः सोदकमसद्वेति संदेहः । तथानुपलब्ध्यनुपपत्तेरुपलब्ध्यनुपलब्धपव्यवस्थातो विशेषांपेक्षः संशयो यथा सन्मूलकी१५ लकादि नोपलभ्यते । सच्चानुपपन्नं विरुद्धं वा । इदानीं पिशाचोऽपि सनोपलभ्यते । सत्त्वेति संशयः समानोऽनेकश्च धर्मो ज्ञेयस्थः । विप्रतिपत्त्युपलब्ध्यनुपलब्धयस्तु ज्ञातृस्था इति भेद: । हिताहितप्राप्तिपरिहारौ तत्साधनं च प्रयोजम् । 'यमर्थमधिकृत्य प्रवर्तते तस्प्रयोजनम्' तच्च द्विविधम् । मुख्यं सुखदुःखप्राप्तिपरिहारौ तत्साधनं २० गौणम् । प्रतिबन्धावरणस्थानं दृष्टान्तः 1 तथा च सूत्रम् — लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः नैसर्गिक वैनयिकं चातिशयमाता लौकिकाः । तद्विपरीताः 7 ९७२ प्रमाणनयतत्त्वालोकालङ्कारः १ गौ.सू. वा. भा. पू. ४२ पं. ५ । १११.२५ । . ९ गौ. सू. १।१।२४ । ३. मौ. सू. "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284