Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 259
________________ प्रमाणनयतत्वालोका लङ्कारः [ परि. ५ सू. ८ संबन्धस्य तादात्म्योपगमे परमतप्रसिद्धिः । अथात्यन्तभिन्नमूर्तिरपि समवायः स्वत एव संबन्धिभिरभिसंबध्यत इति चेत् । पदार्था अपि स्वत एव परस्परमभिसंबद्धा भवन्तु । किममुना कर्तव्यम् । अथ समवाय एव स्वतोऽभिसंबध्यते संबद्धरूपत्वात् । न पदार्थास्तद्वि५ परीतत्वात् । यथा दहन एवं स्वतो दहति दहनरूपत्वात् । न पुनरन्ये पदार्था इति । प्रयोगः समवायः संबन्धान्तरं नापेक्षते स्वयं संबन्धत्वात्, यस्तु नैवं यथा घटादिः । स्वयंसंबन्धश्च समवायस्तस्मात्संबन्धान्तरं नापेक्षत इति । तदप्ययुक्तम् । संयोगेनानेकान्तत्वात् । स हि स्वयं संबन्धः संबन्धान्तरापेक्षश्च । ततः समवायस्य संबन्धि - १० भ्योऽत्यन्तभेदाभ्युपगमे संबन्धासिद्ध्या विशेषणत्वाभावप्रसंगात् । कथंचितादात्म्यपरिणामेनावभासमानोऽयं गुणादिवद्वस्तुपर्याय स्वरूपः ९७०. स्वीकर्तव्यः । षष्ठोऽपि नाभ्येति ततः पदार्थः सद्युक्तिकोटी समवायमाना । स्वाधारतोऽत्यन्तपृथक्तयैकः प्राजल्पि वैशेषिकदर्शने यः ॥ ६८८ ॥ १५ एवं च वैशेषिकतन्त्रसिद्धा प्रमाणगम्यास्ति न षट्पदार्थी | स्याद्वाद एवास्तु तत कृतीन्द्राः प्रमाणवीथीमवगाहमानः ।। ६८९ ।। नैयायिकोपकल्पितषोडशतत्त्व व्यवस्थितौ । नैयाथिको तषोडशपदार्थ- सत्यां मानानामधिगम्यः कथमास्तां नन्वने परीक्षणम् । कान्तः || ६९० ॥ २० तथा हि---प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव तर्क निर्णयवादजल्पवितण्डाहेत्वाभास च्छल जातिनिग्रहस्थानानां पोडशपदार्थानां क्रमेण लक्षणमिदम्- 'अर्थपरिच्छित्तिसाधनं प्रमाणम्' तचतुर्विधम्- ' प्रेत्यक्षानुमानोपमानशब्दाः प्रमाणानि ' इत्यभिधानात् । १ न्या. मं. पु. ७, २५२ गौ. सू. १।१।३ । "Aho Shrut Gyanam".

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284