Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 214
________________ परि. ५.८ ] स्याद्वादरत्नाकर सहितः धर्मः प्रतिनियतेनैव वेद्यमानो दृश्यते । सत्यम् । तस्य प्रतिनियतात्मसमवायित्वे तमेव प्रतियोग्यदेशत्वात् । द्वित्वादिकं तु बाह्यार्थधर्मतया रूपादिवत्तद्देशवर्तिप्रमातृनशेषानपेक्ष्य योग्यदेशमेवेति तद्वत्प्रकाशेत । न च नियतप्रमातृवुद्धिजन्यत्वात्तस्यैव तग्रहीतृत्वं योग्यम् । एवं हि सति कलशादिरपि येनैवं जनितं तस्यैव ग्रहीतुं योग्यः स्यात् । असिद्धं चाद्यापि प्रमातृबुद्धिजत्वं द्वित्वादेः । नन्वेवं रूपादिवद्वित्वादेरवि प्रथमदर्शनसमय एव किं न प्रतिभासः । ननु निरन्तरतर तिमिरनिकरपरिकरिते मूर्तेः कुम्भस्यापि किं नासौ । अभिव्यञ्जकस्यालोकस्यासंभवादिति चेत् । इतरत्राप्यभिव्यञ्जिकाया अपेक्षा बुद्धेरभावादित्यवेहि । यदा त्वसौ संपद्येव भवति तत्प्रतिभासः । ननु कुम्भा - १० दावभिव्यते यथा तद्देशवर्तिनः शेषप्रमातृणां तत्प्रतिभास: प्रभवति तथा चैत्रसकापेक्षा बुद्ध्यमिव्यते द्विवादी मैत्रादीनामपि तद्बुद्धिर्भवेत् । न चैवमिति । न व्यक्तिपक्षः क्षेमकर इति चेत् । नैवम् । उत्पत्तिपक्ष एवैतद्दषणावताराद्वयादौ स्वजनकादन्यैरपि प्रतिभासदर्शनात् । अभिव्यक्तिपक्षे तु नायं दोषो यतश्चक्षुः स्पर्शन सहकारिणोऽ- १५ भिव्यञ्जकाः स्वयमुपलभ्यमाना एवान्यमुपलम्भयन्ति । घटाद्यभिव्यञ्जकप्रदीपाद्या लोकशरीरसंसक्ततोयशीतस्पर्शाभिव्यञ्जकवायुवत् । न च B ९२५ चैत्रबुद्धिमैत्रादीनामध्यक्षा । तमेव प्रति तस्याः स्वसं विदितत्वाच्चक्षुरायगोचरत्वाच्चेति तं प्रत्येकेयमभिव्यञ्जिका किंविघयासावपेक्षा बुद्धिरिति चेत् । एकल्वादिगोचरेति ब्रूमः । तथा हि-पदार्थ २० एकस्मिन् ज्ञाते पदार्थान्तरमेकमपेक्ष्य द्वित्वमभिव्यज्यते । एकस्मिन् द्वयोर्वा ज्ञातयोद्वविकं वापेक्ष्य वित्वमभिव्यज्यते । एकस्मिन् द्वयोस्त्रिषु वा ज्ञातेषु त्रीन् द्वावेकं वापेक्ष्य चतुष्ट्रमभिव्यज्यत इत्यादि तावज्ज्ञेयं यावत्पर्यन्तसंख्येति न नियमेनैकप्रतिपत्तवेद्यत्वं सिद्धम् । अनुमानबाधितश्चात्र पक्षः । तथा हि- द्वित्वादिकं बुद्धिजं न भवति २५ संख्यात्वादेकत्ववदिति पराकृते चैवं द्वित्वादेर्बुद्धिजत्वेऽपेक्षा बुद्धि - ५९ " Aho Shrut Gyanam".

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284