Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 219
________________ ९३० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ मू. ८ इति पञ्चम्या सम्बन्धानुपपत्तेन हि घटापटः पृथगिति घटापटो न भवतीति वाक्यार्थः ' इति तदपि न कुशलाय । यतो यदि पञ्चमीसंबन्धानुपपत्तिमात्रेणैतेषां शब्दानां सर्वथाप्यभावार्थत्वं प्रतिषिध्यते तदा षष्ठीसंबन्धानुपपत्त्याऽभावशब्दम्याभावार्थत्वमपि कथं ५ म्यात् । न हि घटस्याभावोऽत्रास्तीति घटम्पात्र नास्तीत्यपि वा क्यार्थः संगच्छते । किं तु घटोऽत्र नास्तीति । ततः कथमभावशब्दस्याभावार्थत्वं स्यात् । अथ घटम्याभायोऽत्रेत्यभावोऽल्लेखिनी प्रतीतिः । न चात्राभावशब्दस्याभावोऽभिधेय इति महच्चित्रम् । अय मस्मात्पृथगित्यन्यत्रान्यस्य स्वरूपाभावोल्लेखिनी प्रतीतिः । न चात्र १० पृथक्शब्दस्याभावोऽभिधेय इति किं न चित्रम् । अथ घटोऽत्र नाम्तीति नञोऽभावद्योतकत्वात्कर्तृवाचकेन घटशब्देनैव क्रियाया अभिसंबन्धः । ततश्च प्रथमैव घटशब्दात् । घटस्याभावोऽत्रास्तीत्यत्र स्वभावशब्देन कर्तवाचकेन क्रियाया अभिसंबन्धसंभवात् । तत पत्र प्रथमा । तत्संबन्धत्वेन तु घटशब्दात्यष्ठी । तात्पर्य प्रति तूम१५ यत्रापि नास्ति विशेषः । ताई घटः पटो न भवतीत्यत्रापि नत्रो द्योतकत्वेनान्यार्थत्वाभावान्न तद्योगे घटशब्दात्पञ्चमी । पृथक्शब्दस्य तु वाचकत्वेनान्यार्थत्वात् । अन्यारादितरतें' इत्यनेन द्योतने ततः सा भवत्येव । तात्पर्य प्रति तूभयत्रापि नास्ति कश्चिद्विशेष इति सर्व तुल्यम् । यदा तर्हि घटे पटस्याभाव इत्यभावश्चनेर्वाचकम्य २० प्रयोगस्तदा कथं न पञ्चमीति चेत् । अस्याप्यन्यार्थत्वाभावात् । स एव ह्यन्यार्थः शब्दो योऽर्थान्तराभावोपहितेऽर्थान्तरे वर्तते । यथा घटात्पटः पृथगित्यत्र घटाभावोपहिते पटे वर्तमानः पृथक्शब्दः । न चाभावशब्दस्तथा । सर्वदाऽभावमात्रनिष्ठत्वात् । न हि भवति घटे पटोऽभाव इति । किं तु पटस्याभाव इति । यदा तपटो घट इत्यु२५ च्यते तदानीमपटशब्दोऽभावोपहितपदार्थान्तरवाचकोऽन्यार्थोऽस्त्येव । १ पा. सू. २॥३॥२९॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284