Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 218
________________ परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः ९२९ महत्त्वाभावात् । “महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः' इति वचनादिति चेत् । तदसंबद्धम् । विरोधस्यासिद्धेः । भिन्नभिन्नरूपेण तयोस्तत्रावस्थानात्सामान्यविशेषवत् । यदि हि यथामलकाद्यपेक्षया कुवलेऽप्यणुत्वं तथा तदपेक्षयैव महत्त्वमप्यधीयेत तदा स्याद्विरोधसंरोधः । नचैवं सर्षपाद्यपेक्षयैव तत्र महत्त्वव्यवहारात् । एवं च समिदि- ५ क्षुवंशादिषु न्हस्वव्यवहारस्य भाक्तत्वमपाकरणीयम् । यदुक्तम्-'संयुक्तमपि द्रव्यं यद्वशात्' इत्यादि तदपि न सहृदयसंवादि । अपोद्धारव्यवहारस्य परम्पराभावादेव सिद्धेः पृथक्त्वकल्पनाया निष्प्रमाणकत्वात् । ननु कथमभावस्येदमतः पृथगिति विधिप्रत्ययविषयत्वं संगच्छते, तस्येदं न भवतीत्यादिप्रतिषेधप्रत्ययस्यैव गोचरत्वेन प्रसिद्धेरिति चेत् । नैवम् । १० इयं छायेत्यभावेऽपि विधिप्रत्ययस्य त्वया स्वीकारात् । यस्तु नीलरूपारोपस्वरूपां छायामाह--तस्य घटप्रध्वंसोऽत्रेति कथं विधिप्रत्ययः । अथ प्रध्वंसो नाशोऽभाव इति तत्प्रत्ययोऽभावप्रत्यय एवं तर्हि पार्थ. क्यमप्यन्यस्यान्यम्वरूपत्वप्रतिषेध इति तत्प्रत्ययोऽप्यभावप्रत्ययः किं न स्यात् । यत्तु व्योमशिवो व्याजहार-नैव पदार्थान्तरावधिं विन- १५ कत्वादिसंख्याविशिष्टस्य पृथगिति व्यवहारस्य ततोऽर्थान्तरत्वात् । तथा हीतरेतराभावविशिष्टो व्यवहारः पदार्थान्तरावधित्वेन प्रवर्तते । न चैकत्वादिसंख्यानुरक्तस्तद्विलक्षणश्वायमित्यर्थान्तरनिमित्तः' इति तदपि स्वसिद्धान्तश्रद्धाविजम्भितम् । वैलक्षण्यासिद्धेः । पृथक्त्वव्यवहारस्याप्ययमम्मात्पृथगिति सावधित्वेनैव प्रवृत्तेरितरेतराभावस्यापि २० कचिदेकस्य द्वयोर्बहूनामत्राभाव इति संख्यानुरक्तत्वेन प्रतीतेः । नियमेन तु पृथक्त्वव्यवहारोऽपि न । तथायमस्मात्पृथगिति संख्योल्लेखमन्तरेणापि भावात् । अथायमित्येकवचनेनोल्लिख्यमानैकस्वसंख्यास्त्येवाति चेत् । अयमयं न भवतीत्यत्राप्येवमस्तु । यत्तूदयनः प्राह- 'पृथगादिशब्दाः पर्याया इत्यनुमन्यामहे न त्वभावार्था २५ १ . द. ४११६ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284