Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
पार. ५ मू.८]
स्याद्वादरत्नाकरसहितः
९२७.
स्यात् । यदि पुनरस्पष्टावभासित्वे सत्यापेक्षिकत्वादिति हेतुस्तदा साधनविकलो दृष्टान्तः । स्थविष्ठत्वादिधर्माणां स्पष्टावभासित्वात् । तत्तत्र भान्तमिति चेत् । न । बाधकाभावात् । स्थविष्ठत्वादिधर्मप्रतिभासो न स्पष्टो विकल्पत्वादनुमानादिविकल्पवदित्यनुमानं तबाधकमिति चेत् । न । पुरोवर्तिनि वस्तुनीन्द्रियजविकल्पेन स्पष्टेन व्यभि- ५ चारात । तस्यापि पक्षीकरणादल्यभिचार इति चेत् । तर्हि संभाव्यत्यभिचारो हेतु: स्पष्टत्वेन विकल्पत्वस्य विरोधासिद्धेः । क्वचिद्रिकल्पत्वस्यास्पष्टत्वेन दर्शनात् । स्पष्टत्वेन व्यभिचारात्तस्यापि पक्षीकरणाव्यभिचार इति चेत् । तर्हि संभाव्यत्यभिचारो हेतुः स्पष्ट - स्वेन विकल्पत्वम्य विरोधासिद्धेः कचिद्रिकल्पत्वम्यास्पष्टत्वेन दर्शनात् । १० स्पष्टत्वेन विरोधे चन्द्रद्वयप्रतिभासे प्रतिभासत्वस्यासत्त्वेन दर्शनास्वसंचित्प्रतिभासस्यापि सत्यत्वं मा भूतथाविरोधसिद्धेरविशेषात् । अथ प्रतिभासत्वाविशेषेऽपि स्वसंवित्प्रतिभासः सत्यः शशिद्वयप्रतिभासमस्वसत्यः संवादाद्विसंवादाच्च प्रोच्यते । तर्हि विकल्पत्वाविशेषेऽपीन्द्रियजविकल्पः स्पष्टः साक्षादर्थग्राहकत्वात् । नानुमानादिविकल्पोऽ- १५ सालादर्थग्राहकत्वादित्यनुमन्यताम् । तथा चेन्द्रियजविकल्पन व्यभिचार एव । निर्विकल्पत्वादिन्द्रियजस्य ज्ञानम्य नेन्द्रियजो विकल्पोऽ. म्तीति चेत् । न । तस्य प्राक्प्रसाधितत्वात् । .... .... .... विधे एव तथा व्यवन्हियते इति किं नाङ्गीकुरुपे किमिति पक्षणातानपेक्षं न क्षणमीक्षसे । अथ न संस्थानविशेषम्वरूपाणि पृथुत्वा- २० दीनि महत्त्वपरिमाणमेव ह्युत्तरदक्षिणे अपेक्ष्य पृथुसंकीर्णतयाऽव ऊव चापेक्ष्यागाधतया व्यवन्हियते तहि पूर्वपश्चिमे अपेक्ष्य महत्त्वमेव दीधहस्वत्वेन व्यवन्हियतामिति कथं चातुर्विध्यम् । किं च किमाकारः स पुमानिति सम्थानविशेषे प्रश्नेऽपि प्रोच्यते प्रांशुम्यो वेति । ततोऽनयोः संस्थानरूपतेच ज्यायसी । अथैवं महत्त्वमपि संस्थानविशेष एव २५ स्यान्, न परिमाणमिति चेत् । मैवम् । अस्य निःशेषसंस्थानविशेषैः
"Aho Shrut Gyanam"

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284