Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 255
________________ प्रमाणनय तत्त्वालोकालङ्कारः [ परि. ५सू. ८ रन्यतरस्य चापृथगाश्रयाश्रयित्वलक्षणः परस्परपरिहारेणान्यत्राश्रये समवायोऽयुतसिद्धिः । द्वयोः पृथगाश्रयाश्रयित्वं घटपटयोः शकुन्याकाशयोश्चान्यतरस्य शकुनेः पृथगाश्रयाश्रयित्वं यद्यप्यन्यतरपृथग्गमनमप्यस्ति तथापि तस्य पृथग्गमनस्य न ग्रहणम् । नित्यविष५ यत्वात्तस्य । यदि पुनर नित्यानामपि पृथग्गमनं युतसिद्धिरुच्येत । तदा त्वगिन्द्रियशरीरयोः पृथग्गमनाभावादयुत सिद्धत्यं भवेत् । ततश्च तयोः परस्परसंयोगो न स्यात् । तस्य युतसिद्धिव्याप्तत्वात् । न चायं तत्र नास्ति कुण्डचदरादिवत्तस्यैव तत्र युज्यमानत्वात् । तस्मादनित्यानां न पृथग्गमनं युतसिद्धिः । नित्येषु पुनराश्रयाभावादेव पृथगाश्रयाश्रयित्वं १० नास्तीति तेषां पृथग्गमनमेव युतसिद्धिः । न त्वनित्यानां पृथगाश्रयाश्रितत्वरूपायां युतसिद्धावभिधीयमानायां घटपटवतन्तुपटयोरपि युतसिद्धिरेव भवेत् । पटस्य तन्तुषु तेषां च स्वांशुषु वृत्तेरिति चेत् । नैवम् । यतो यत्रोभयोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वं तत्र युतसिद्धिर्विवक्षिता । न चेयमत्रास्ति पटस्य १५ तन्तुष्येवाश्रितत्वात् । तत एवंविधयुत सिद्धिद्वयविपरीताऽयुतसिद्धिः सुघटैव । सिद्धिशब्देन चात्र गमनं निष्पत्तिश्च वाच्यमिति । तदपि नोपपद्यते । दिकालाकाशात्मनां नित्यसम्बधिनां व्यापकतया द्वयोरेकस्य चा परस्परसंयोगविभागहेतु भूतकर्म समवाय योग्यता रूपयुत सिद्धेरभावेनायुतसिद्धिप्रसंगादित्यतिव्यापनीयमयुतसिद्धिः । चक्रकापतिश्चात्र ! २० तथा हि- समयायसिद्धौ द्वयोरेकतरस्य वा संयोगविभागहेतुभूत कर्मसमवाययोग्यत्वरूपाया द्वयोरेकतरस्य वा परस्परपरिहारेणान्यत्राश्रये समवाय इत्येवंरूपायाश्च युतसिद्धेः सिद्धिः । तत्सिद्धौ च तद्वैपरीत्येनायुतसिद्धिरिति । अपि च येथे घटपटयो: पृथगाश्रयाश्रयित्वयुतसिद्धिः प्रागभ्यवायि, नेयमुपपत्तिमती । कपालकलशयोस्तन्तुपटयोश्च २५ यथाक्रममाश्रयाश्रयित्वयोरप्रसिद्धेः । न हि कपालानि तन्तवश्चाश्रयो घटः पढश्चाश्रयीति कस्यचित्प्रसिद्धम् । कथमेवमिह कपालेषु घट " Aho Shrut Gyanam" હૃદ

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284