________________
प्रमाणनय तत्त्वालोकालङ्कारः
[ परि. ५सू. ८
रन्यतरस्य चापृथगाश्रयाश्रयित्वलक्षणः परस्परपरिहारेणान्यत्राश्रये समवायोऽयुतसिद्धिः । द्वयोः पृथगाश्रयाश्रयित्वं घटपटयोः शकुन्याकाशयोश्चान्यतरस्य शकुनेः पृथगाश्रयाश्रयित्वं यद्यप्यन्यतरपृथग्गमनमप्यस्ति तथापि तस्य पृथग्गमनस्य न ग्रहणम् । नित्यविष५ यत्वात्तस्य । यदि पुनर नित्यानामपि पृथग्गमनं युतसिद्धिरुच्येत । तदा त्वगिन्द्रियशरीरयोः पृथग्गमनाभावादयुत सिद्धत्यं भवेत् । ततश्च तयोः परस्परसंयोगो न स्यात् । तस्य युतसिद्धिव्याप्तत्वात् । न चायं तत्र नास्ति कुण्डचदरादिवत्तस्यैव तत्र युज्यमानत्वात् । तस्मादनित्यानां न पृथग्गमनं युतसिद्धिः । नित्येषु पुनराश्रयाभावादेव पृथगाश्रयाश्रयित्वं १० नास्तीति तेषां पृथग्गमनमेव युतसिद्धिः । न त्वनित्यानां पृथगाश्रयाश्रितत्वरूपायां युतसिद्धावभिधीयमानायां घटपटवतन्तुपटयोरपि युतसिद्धिरेव भवेत् । पटस्य तन्तुषु तेषां च स्वांशुषु वृत्तेरिति चेत् । नैवम् । यतो यत्रोभयोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वं तत्र युतसिद्धिर्विवक्षिता । न चेयमत्रास्ति पटस्य १५ तन्तुष्येवाश्रितत्वात् । तत एवंविधयुत सिद्धिद्वयविपरीताऽयुतसिद्धिः सुघटैव । सिद्धिशब्देन चात्र गमनं निष्पत्तिश्च वाच्यमिति । तदपि नोपपद्यते । दिकालाकाशात्मनां नित्यसम्बधिनां व्यापकतया द्वयोरेकस्य चा परस्परसंयोगविभागहेतु भूतकर्म समवाय योग्यता रूपयुत सिद्धेरभावेनायुतसिद्धिप्रसंगादित्यतिव्यापनीयमयुतसिद्धिः । चक्रकापतिश्चात्र ! २० तथा हि- समयायसिद्धौ द्वयोरेकतरस्य वा संयोगविभागहेतुभूत कर्मसमवाययोग्यत्वरूपाया द्वयोरेकतरस्य वा परस्परपरिहारेणान्यत्राश्रये समवाय इत्येवंरूपायाश्च युतसिद्धेः सिद्धिः । तत्सिद्धौ च तद्वैपरीत्येनायुतसिद्धिरिति । अपि च येथे घटपटयो: पृथगाश्रयाश्रयित्वयुतसिद्धिः प्रागभ्यवायि, नेयमुपपत्तिमती । कपालकलशयोस्तन्तुपटयोश्च २५ यथाक्रममाश्रयाश्रयित्वयोरप्रसिद्धेः । न हि कपालानि तन्तवश्चाश्रयो घटः पढश्चाश्रयीति कस्यचित्प्रसिद्धम् । कथमेवमिह कपालेषु घट
" Aho Shrut Gyanam"
હૃદ