________________
परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः इह तन्तुषु पट इति प्रतीतेरुत्पत्तिरिति चेत् । कम्येयं प्रतीतिरुत्पद्यते स्वदर्शनाहितसंस्कारस्य भवतोऽपक्षपातिनोऽन्यस्यापि वा । नाद्यपक्षः । तथात्वेऽस्याः कल्पनामात्रत्वप्रसंगात् । न च कल्पनाया: पदार्थस्वरूपानुरोधः । तस्याः स्वातन्त्र्यवृत्तित्वात् । ततो वस्तुव्यवस्थापने व्यवस्थाप्रसक्तेः भवत्कल्पितम्यापि वस्तुनोऽन्यथान्येन कल्पयितुं ५ शक्यत्वात् । द्वितीयपक्षे त्यसिद्धिः । तन्तुसमुदायात्मायं पट इति पटेऽत्र तन्तव इति का सर्वेषां प्रतीत्युत्पत्तेः । एवं च पृथगाश्रयायित्व. रूपयुतसिद्धरसिद्धेः कथं तद्वैपरीत्येनागुतसिद्धिः सिध्येत् । कन्दलीकारोऽप्येतादृशीमेवायुतसिद्धिमभिधानोऽनेनैव निरस्तः । यत्तूदयनः प्राह---- अयुतसिद्धाः प्राप्ताश्च ते सिद्धाश्चेत्य- १० युतसिद्धाः प्राता एव सन्ति न वियुक्ता इति यावत्तेषां संबन्धः प्राप्तिलक्षणः समवायस्तेन संयोगो व्यवच्छिन्नस्तस्याप्राप्तिपूर्वकत्वादजसंयोगाभावो वक्ष्यते ' इति तदम्यात्यन्तव्युत्पन्नमन्यस्यातिसंस्कृतवातूल ब्राह्मणविशेषवत्केवलमनाय शरीरत्व. गिन्द्रिययोर्घटाकाशयोराकाशात्मनोश्च प्राप्तयोरेव सिद्धयोरयुतसिद्धत्वेन १५ समवायप्रसंगात् । अस्तु वा यथाकथञ्चिदयुतसिद्धत्वं तथापि कोऽत्र व्यवच्छेद्यव्यवच्छेदकभावः । अत्र श्रीधरस्तावयाहरति-- 'अयुतसिद्धयोः संवन्ध इत्युच्यमाने धर्मस्य सुखस्य च यः कार्यकारणभावलक्षणः सम्बन्धेः सोऽपि समवायः प्रामोति । तयो. रात्मकाश्रितयोर्युतसिद्ध्यभावात, तदर्थमाधारमाधार्यभूतानामिति २० पदम् । न त्वाकाशशकुनिसंवन्धनिवृत्यर्थमयुतसिद्धिपदेनैव तस्य निवर्तित्वात् । एवमप्याकाशस्याकाशशब्दस्य च वाच्यवाचकभावः समवायः स्यात्तनिवृत्त्यर्थमिहनत्ययहेतुः' इत्येतावतैवास्याभिमतसिद्धेः । न चैवं धर्मसुखयोः कार्यकारणभावस्य .... .... ....
१.पा. कं. पृ. १४ पं. २ किरणावल्या पृ. १३३. मुले पाठभेदो वर्तते । मा. कं पृ. १४ पं. १८
"Aho Shrut Gyanam"