________________
परि. ५ सु. ८]
स्याद्वादरत्नाकरसहितः
न पञ्चमोऽप्येष विशेषनामा वैशेषिकाणां घटते पदार्थः । तल्लक्षणं कुञ्जरकेशरालीश्लाघासमानं प्रतिभाति तस्मात् ।। ६८७ ।। बच जल्पितम् ' अयुतसिद्धानामाधार्याधारभूतानाभिहेति प्रत्यय
.. हेतुर्यः सम्बन्धः स समवायः' इत्यादि तत्र समवायपदार्थपरीक्षणम्।
क्षिणम्' केयमयुतसिद्धिर्नाम । अभिन्न देशे वृत्तिः, अभि. ५ नकालता, अभिन्नधर्मिता, अभिन्न कारणप्रभवत्वं, अभिन्नस्वरूपत्वंवा । नाद्यः पक्षः। असिद्धत्वात् । न हि य एव तन्तूनां देशाम्त एव पटम्यापि। तन्तवो हि स्वांशु स्थिताः । पटस्तु तेविति । न द्वितीयः । असिद्धत्वादेव । तन्तुपटादीनां कार्यकारणभावेन पूर्वापरकालत्वात् । न तृतीयः । तत एव । न ह्यवयव्यादीनां क्वचिदेकस्मिन्धर्मिण्याश्रि- १० तत्वमस्ति । नापि चतुर्थः । तस्मादेव हेतोस्तन्तूनां प्रवेण्यादेः पटस्य तन्तुत्वादेः कारणम्य प्रसिद्धेः ! अभिन्नस्वरूपत्वं तु, अन्यस्यान्यान्य. रूपतापत्तिः । एकलोलीभावेनात्मलाभो वा भवेत् । प्रथमपक्षे प्रत्यक्षविरोधः। न खलु जात्यादेव्यक्त्यादिस्वरूपापत्तिः प्रत्यक्षतः प्रतीयेत । द्वितीयपक्षे तु तथा परिणतिरेवाविष्वम्भावस्वभावा पदार्थानामयुत- १५ सिद्धत्वमित्यस्मन्मतसिद्धिः । अपि च सिद्धिशब्देनात्र किं ज्ञप्ति. रुत्पत्तिर्वाऽभिप्रेता । यदि ज्ञप्तिस्तदा सामान्यतद्वदादीनां युतसिद्धिप्रसक्तिः । अनुवृत्तव्यावृत्तादिरूपतया तेषां परस्परं पृथगेव स्वरूपसंवेदनात् । तथा च तत्र समवायाभावो भवेत् । अथोत्पत्तिस्तदा युतसिद्धिरपृथगुत्पत्तिरित्यायातम् । तदपि जात्यादेनित्यत्वाभ्यु- २० पगमार्घटम् । अथ युतसिद्धेरभावमात्रमयुतसिद्धिः । सा च जात्यादावस्ति । तेनायमदोष इति चेत् । नैवम् । इत्थमाकाशादीनामप्ययुतसिद्धिप्रसक्तेः । अथ युतसिद्धिवैपरीत्येनायुतसिद्धिर्व्यवस्थाप्या । तत्र नित्यानां तावद्वयोरेकस्य वा परस्परं संयोगविभागहेतुभूतकर्मसमवाययोग्यतोऽयुतसिद्धिः । द्वयोः परमाण्वोः पृथग्गमन. २५ माकाशपरमाण्योश्चान्यतरस्य पृथग्गमनमिति । अनित्यानां तु द्वयो
"Aho Shrut Gyanam"