________________
प्रमाण नयतत्त्वालोकालङ्कारः परि. ५ स. ८ .... .... लक्षणोऽयं विलक्षणमिति प्रत्ययवृत्तिर्देशकालविप्रकर्पोपलव्यः स एवायमिति प्रत्यभिज्ञानं च यतो भवति ते योगिनां विशेषप्रत्ययेनोन्नीतसत्त्वा अन्त्या विशेषा अस्मदादीनां प्रसिद्धाः । तथा च प्रयोगोऽत्र तुल्यजातिगुण .... .... .... .... .... ध्वपरविशेषयोगाव्यावृत्तिबुद्धिपरिकल्पनायामनवस्थादिबाधकोपपत्तेः । उपचारातेषु तद्बुद्धिः । तर्हि परमावादिप्वपि भिन्न. विशेषनिबन्धना नेयमभ्युपगन्तया । तेषां तत्र भिन्नाभिन्नव्यावृत्तरूपकरणानुपपत्ते धकस्य. सद्भावात् । भिन्नम्य हि व्यावृत्तरूपस्य करणे
न किंचिदण्यादीनां कृतं स्यात् । तथा चाव्या वृत्तेषु स्वयं तेषु व्या१० वृत्तबुद्धिर्वा नैव योगिनां भवेत् । अभिन्नम्य तु तभ्य करणे त एव
कृता इति तेषामनित्यतापत्तिः । ननु यथा दीपादीनां स्वत एव भासुररूपता तत्स्वभावत्यान्न घटादिसम्बन्धात् । घटादीनां तु सत्सम्बन्वादेव विशेपेषु स्वत एवं व्यावृत्तप्रत्ययहेतुत्वं तत्स्वभावत्वान्न विशेषा
न्तरसंबन्धात्, परमाण्वादौ तु तद्योगादिति । एतदप्यपालोचितवचनम् । १५ यतः प्रदीपादिसंबन्धाद्धटादयः पदार्थाः परित्यक्तप्राक्तनाभासुरत्व.
पर्यायाः कथञ्चिदन्य एव भासुरत्वपर्यायजुषो जायन्त इति युक्तं तेषां तत्सम्बन्धाद्भासुररूपत्वम् । न च परमाग्वादिप्येतत्संभवति । तेषां सर्वथा नित्यत्वाभ्युपगमतः प्राक्तनाविविक्तरूपत्यागेनापरविविक्तरूपतयानुत्पत्तेः । ननु परमाण्यादावविविक्तरूपस्यैवासंभवात्कम्य परित्यागेन ते विविक्तस्वभावाः स्युः । नित्यैकरूपाणां तेषां सर्वदा विशेषपदार्थालिङ्गितत्वेन सर्वदा विविक्तरूपस्थैव संभवादित्यपि श्रद्धामात्रम् । तन्नित्यैकरूपत्वस्य परमाणुविचारावसरे परास्तत्वात् । अनुमानबाधितश्च व्यतिरिक्तविशेषेभ्यस्तत्प्रत्ययप्रादुर्भावः । तथा हिविवादापन्नेषु भावेषु विलक्षणप्रत्ययस्तव्यतिरिक्तविशेषनिबन्धनो न २५ भवति । विलक्षणप्रत्ययत्वाद्गुणादिषु तत्प्रत्ययवदिति ।
एवं च---
"Aho Shrut Gyanam"