Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 250
________________ पारे. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः प्रसंगादव्याप्तिः । धूर्तशूद्वेष्वप्यखिलस्य याजनाद्याचारस्योपलब्धितो ब्राह्मण्यनिर्णयानुषंगाचातिव्यातिः । अथ मिश्यायमाचारस्तत्र । अन्यत्र कुतः सत्यः । ब्राह्मग्यसिद्धेश्चेदन्योन्याश्रयः । सिद्धे ह्याचा. रसत्त्वे ब्राह्मण्यसिद्धिः । तसिद्धौ चाचारसत्यत्वसिद्धिरिति । एतेन संस्कारविशेषम्य वेदाध्ययनस्य यज्ञोपवीतादेश्च चक्षुःसहकारिता ५ प्रत्युक्ता । अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात् ब्रह्मप्रभवत्वमपि न लोचनसचिवीभवितुमर्हति । अतिप्रसंगात् । सकलपाणिनां तत्प्रभवतया ब्राह्मण्यप्रसंगात् । किं च ब्रह्मणो ब्राह्मणप्रमस्ति न वा। नास्ति चेत्, कथमतो ब्राह्मणोत्पत्तिः । न ह्यमनुष्यान्मनुप्योत्पत्तिः प्रतीता । अथा. स्ति किं सर्वत्र, मुखप्रदेश एव वा । यदि सर्वत्र तर्हि सर्वप्राणिनां १० ब्राह्मण्यानुषणः । अथ मुखप्रदेश एव तदान्यत्रास्याः शूद्रत्वानुषंगान्न विप्राणां तत्पादादयो बन्धाः स्युः । न च प्रभवत्वं विशेषणं ब्राह्मण्यप्रत्यक्षताकाले केनचित्प्रतीयते । न चाप्रतिपन्नं विशेषणं विशेष्यप्रतिपत्तुमाधातुं समर्थम् । अतिप्रसङ्गात् । तन्न प्रत्यक्षेण ब्राह्मण्यपरि. च्छेदः अथानुमानेन परिच्छेदः । तथा हि- ब्राह्मण इति ज्ञान व्यक्तिवर्णविशेषाध्ययनाचारयज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं तन्निमित्तकवुद्धिविलक्षणत्वाद्वादिज्ञानवदिति । तदुपेक्ष्यम् । यतो यदि व्यक्त्यादिभ्यो व्यतिरिक्तं निमित्तमात्रमस्य ज्ञानस्य विषयत्वेन साध्यते तदा सिद्धसाध्यता । तत्समुदायस्य समुदायिभ्यः कथञ्चिदव्यतिरिक्त- २० स्य तद्विषयत्वेन स्वीकारात् । अथ प्रतिव्यक्ति परिसमाप्तमेकमेकान्तव्यतिरिक्तमाभिधीयते तदा पक्षस्य प्रतिपक्षबाधितत्वम् । कटकालापादिब्राह्मणव्यक्तिषु हि ब्राह्मणज्ञानं व्यक्त्यादिव्यतिरिक्तसामान्यनिमित्तरहि. तमेवाध्यक्षतः प्रतीयते । अश्रावणत्वविविक्तशब्दवत् । अनैकान्तिकश्चात्र नगरादिज्ञानेन हेतुः । तत्र व्यक्त्यादिव्यतिरिक्तनिवन्धनाभावेऽ- २५ पि तन्निमित्तबुद्धिविलक्षणत्वस्य त्वमतेनोपलम्भात् । न खलु नगर "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284