________________
पारे. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः प्रसंगादव्याप्तिः । धूर्तशूद्वेष्वप्यखिलस्य याजनाद्याचारस्योपलब्धितो ब्राह्मण्यनिर्णयानुषंगाचातिव्यातिः । अथ मिश्यायमाचारस्तत्र । अन्यत्र कुतः सत्यः । ब्राह्मग्यसिद्धेश्चेदन्योन्याश्रयः । सिद्धे ह्याचा. रसत्त्वे ब्राह्मण्यसिद्धिः । तसिद्धौ चाचारसत्यत्वसिद्धिरिति । एतेन संस्कारविशेषम्य वेदाध्ययनस्य यज्ञोपवीतादेश्च चक्षुःसहकारिता ५ प्रत्युक्ता । अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात् ब्रह्मप्रभवत्वमपि न लोचनसचिवीभवितुमर्हति । अतिप्रसंगात् । सकलपाणिनां तत्प्रभवतया ब्राह्मण्यप्रसंगात् । किं च ब्रह्मणो ब्राह्मणप्रमस्ति न वा। नास्ति चेत्, कथमतो ब्राह्मणोत्पत्तिः । न ह्यमनुष्यान्मनुप्योत्पत्तिः प्रतीता । अथा. स्ति किं सर्वत्र, मुखप्रदेश एव वा । यदि सर्वत्र तर्हि सर्वप्राणिनां १० ब्राह्मण्यानुषणः । अथ मुखप्रदेश एव तदान्यत्रास्याः शूद्रत्वानुषंगान्न विप्राणां तत्पादादयो बन्धाः स्युः । न च प्रभवत्वं विशेषणं ब्राह्मण्यप्रत्यक्षताकाले केनचित्प्रतीयते । न चाप्रतिपन्नं विशेषणं विशेष्यप्रतिपत्तुमाधातुं समर्थम् । अतिप्रसङ्गात् । तन्न प्रत्यक्षेण ब्राह्मण्यपरि. च्छेदः
अथानुमानेन परिच्छेदः । तथा हि- ब्राह्मण इति ज्ञान व्यक्तिवर्णविशेषाध्ययनाचारयज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं तन्निमित्तकवुद्धिविलक्षणत्वाद्वादिज्ञानवदिति । तदुपेक्ष्यम् । यतो यदि व्यक्त्यादिभ्यो व्यतिरिक्तं निमित्तमात्रमस्य ज्ञानस्य विषयत्वेन साध्यते तदा सिद्धसाध्यता । तत्समुदायस्य समुदायिभ्यः कथञ्चिदव्यतिरिक्त- २० स्य तद्विषयत्वेन स्वीकारात् । अथ प्रतिव्यक्ति परिसमाप्तमेकमेकान्तव्यतिरिक्तमाभिधीयते तदा पक्षस्य प्रतिपक्षबाधितत्वम् । कटकालापादिब्राह्मणव्यक्तिषु हि ब्राह्मणज्ञानं व्यक्त्यादिव्यतिरिक्तसामान्यनिमित्तरहि. तमेवाध्यक्षतः प्रतीयते । अश्रावणत्वविविक्तशब्दवत् । अनैकान्तिकश्चात्र नगरादिज्ञानेन हेतुः । तत्र व्यक्त्यादिव्यतिरिक्तनिवन्धनाभावेऽ- २५ पि तन्निमित्तबुद्धिविलक्षणत्वस्य त्वमतेनोपलम्भात् । न खलु नगर
"Aho Shrut Gyanam"