________________
૨
प्रमाणनयतत्त्वालोका लङ्कारः
सेना वनमित्यादिज्ञाने व्यक्त्यादिव्यतिरिक्ततथाभूतप्रत्ययनिबन्धनं किंचित्त्वयाभ्युपगतमस्ति । ततो नानुमानादपि ब्राह्मण्यनिर्णयः । नाप्यागमात् । यतोऽसौ पौरुषेयो वा स्यादपौरुषेयः । न तावद - पौरुषेयः ः । तस्य कार्य एवार्थे प्रामाण्याभ्युपगमात् । ब्राह्मण्यस्य ५ नित्यतयेष्टितोऽकार्यत्वात् । नापि पौरुषेयात् । तस्य प्रमाणान्तरसापेक्षत्वात्तस्य चात्रासंभवात् । नाप्यनुमानात् । तस्य सादृश्यालम्बनत्वात् । अप्रतिपन्ने च प्रमाणान्तरेण ब्राह्मण्ये कथं तेन सादृश्यं कथंचित्प्रतीयेत । यतस्तद्दर्शनात् ब्राह्मण्यमवगम्येत । नाप्यथीपतेः । तत्प्रतिपत्तिर्ब्राश्ह्मण्यजातिव्यतिरेकेणानुपपद्यमानस्य प्रमाणपट्टविज्ञातस्य १० कस्यचिदप्यर्थस्याप्रतीयमानत्वात् । ननु ब्राह्मणत्वसामान्याभावे वर्णाश्रमव्यवस्था तन्निबन्धनस्तपोदानादिव्यवहारश्च सर्वजनसंप्रतिपन्नो नोपपद्येतेति कल्पनीयम् । तन्नैवम् । क्रियाविशेषयज्ञोपवीतादिचिन्हो पलक्षिते प्रकृतिविशेषे तद्व्यवस्थायास्तद्व्यवहारस्य चोपपत्तेः । अथैवं गोत्वादिसदृश परिणामस्याप्यभावापत्तिः । शक्यं हि तत्राप्येवं वक्तुं १५ सानाककुदाद्युपलक्षिते वस्तुनि गवादे ( ? ) ज्ञान यवानामेकत्राविश्यग्भावेनावस्थितानां
खण्ड मुण्डादिपिण्डान्तरसाधारणो मातङ्गतुरङ्गविहङ्गाद्यसाधारणश्च यः कथंचिद्यतिरिक्तः । तथानुभवेन व्यवस्थाप्यमानसमुदायः स एव सदृशपरिणामः प्रोच्यते । न चैतादृशोऽवयवसमह
....
....
२० द्यत एव स कश्चन विशेषो यः परस्परमसाधारणः । लक्षयन्ति चैनं निपुणधियः परस्परासंकीर्णव्यवहारप्रवर्तनात् । प्रकृते तु नायं कश्चिन्निश्चेतुं शक्यते । ब्राह्मणभूतपितृजन्यत्वादेदुर्ज्ञेयत्वेन प्रतिपादितत्वात् । तन्न भवत्कल्पे
***
7...
****
....
....
१ वेश्यापाटक: वेश्यासंनिवेशः ।
[ परि. ५ सू. ८
****
पमन्यथा वेश्यापाटकादिप्रविष्टानां ब्राह्मणीनां ब्राह्मव्याभावो भवेत् । न हि विद्यमानमेव तां व्यक्ति सामान्यं
२५
"Aho Shrut Gyanam"
....
....