________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५.८
प्लुतत्वं निश्चीयेत । न चासौ सिद्धा । न खलु वडवायां रासभतुरगप्रभवापत्येष्विव ब्राह्मण्यां ब्राह्मणाप्रभवापत्येषु वैलक्षण्यं प्रतीयते । आगमतोऽप्यपौरुपेयात्पौरुषेयाद्वा । तयोरविप्लुतत्वस्य प्रतिपत्तिः स्यात् । न तावदपौरुषेयात् । तत्प्रतिपादकस्यापौरुषेयस्यागमस्यैवा५ संभवात् । पौरुषेयोऽप्यागमस्तत्प्रणेत्रा प्रमाणान्तरेणानयोर विप्लुतत्वे प्रतिपन्ने सति प्रवर्तमानः प्रमाणतां भजते न च तत्प्रतिपत्तिः कुतश्चिदप्यस्तीत्युक्तम् । तन्न तज्जन्मन्यनयोरविप्लुतत्वं कुतश्चिप्रत्येतुं शक्यम् । एतेनानादिकाले तयोस्तत्प्रतिपत्तिः प्रत्युक्ता । ययोर्हि तज्जन्मन्यप्यविप्लुतत्वं प्रत्येतुं न शक्यम् । तयोरनादिकाले १० तत्प्रतीयत इति महच्चित्रम् । एतेनैवानादिकालपितृप्रवाहापेक्षयात्रिप्लुतत्वप्रतिज्ञापि प्रतिक्षिप्ता । किं च सदैवावलानां प्रबल कामातुरतयेहजन्मन्यपि व्यभिचारोपलम्भादनादौ काले ताः कदा किं कुर्वसीति ब्रह्मणापि ज्ञातुमशक्यम् । एतेन तदपि प्रत्युक्तं स्वविशेषव्यतथा जातिविशेषाश्वेतर जातिपरिहारेणावभासमाना जात्यन्तरपरिहारेण १५ स्वजातिं व्यञ्जयन्ति यथा गवादयः । अतः प्रथमदर्शने प्रतिभातमपि व्यञ्जकभेदग्रहणान्नोल्लिखति कभेदाग्रहणं चात्यन्तसुसदृशावयवत्वादुपपन्नम् । अत्यन्तसुमद्दशगोगवयवत् । दृश्यते च द्रव्यपरीक्षकाणां कूटाकूटवियेके मणिपरीक्षकाणां च मणिकाचादिविवेकेऽवधानवतां नैसर्गिकाभ्यासिकप्रतिभासामग्री सद्भाव २० एव कूटाकूटविवेको मणिकाचादिविवेकश्च । एवमिहाप्यविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्मण्यामुत्पादितो ब्राह्मण इत्यौपदेशिकमातापितृब्राह्मण्यज्ञानलक्षणसामग्रीसद्भाव एव । ब्राह्मणोऽयमिति विवेकेन प्रतिभासः प्रवर्तत इति । अविप्लुतनिर्णयस्त्र कर्तुमशक्तेरुक्तत्वात् । आचारविशेषश्चक्षुः सहकारीति चेत् । न त्वसौ ब्राह्मण्यस्याधारणो याज२५ नाध्यापनप्रतिग्रहादिः । स च तत्प्रत्यक्षतानिमित्तं न भवति । अव्याप्तेरतिव्याप्तेश्चानुषंगात् । याजनादिरहितेषु हि ब्राह्मणेष्वपि तन्निश्चयाभाव
ब्राह्मण्यं
९६०
" Aho Shrut Gyanam"
.