________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः
९२९ महत्त्वाभावात् । “महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः' इति वचनादिति चेत् । तदसंबद्धम् । विरोधस्यासिद्धेः । भिन्नभिन्नरूपेण तयोस्तत्रावस्थानात्सामान्यविशेषवत् । यदि हि यथामलकाद्यपेक्षया कुवलेऽप्यणुत्वं तथा तदपेक्षयैव महत्त्वमप्यधीयेत तदा स्याद्विरोधसंरोधः । नचैवं सर्षपाद्यपेक्षयैव तत्र महत्त्वव्यवहारात् । एवं च समिदि- ५ क्षुवंशादिषु न्हस्वव्यवहारस्य भाक्तत्वमपाकरणीयम् । यदुक्तम्-'संयुक्तमपि द्रव्यं यद्वशात्' इत्यादि तदपि न सहृदयसंवादि । अपोद्धारव्यवहारस्य परम्पराभावादेव सिद्धेः पृथक्त्वकल्पनाया निष्प्रमाणकत्वात् । ननु कथमभावस्येदमतः पृथगिति विधिप्रत्ययविषयत्वं संगच्छते, तस्येदं न भवतीत्यादिप्रतिषेधप्रत्ययस्यैव गोचरत्वेन प्रसिद्धेरिति चेत् । नैवम् । १० इयं छायेत्यभावेऽपि विधिप्रत्ययस्य त्वया स्वीकारात् । यस्तु नीलरूपारोपस्वरूपां छायामाह--तस्य घटप्रध्वंसोऽत्रेति कथं विधिप्रत्ययः । अथ प्रध्वंसो नाशोऽभाव इति तत्प्रत्ययोऽभावप्रत्यय एवं तर्हि पार्थ. क्यमप्यन्यस्यान्यम्वरूपत्वप्रतिषेध इति तत्प्रत्ययोऽप्यभावप्रत्ययः किं न स्यात् । यत्तु व्योमशिवो व्याजहार-नैव पदार्थान्तरावधिं विन- १५ कत्वादिसंख्याविशिष्टस्य पृथगिति व्यवहारस्य ततोऽर्थान्तरत्वात् । तथा हीतरेतराभावविशिष्टो व्यवहारः पदार्थान्तरावधित्वेन प्रवर्तते । न चैकत्वादिसंख्यानुरक्तस्तद्विलक्षणश्वायमित्यर्थान्तरनिमित्तः' इति तदपि स्वसिद्धान्तश्रद्धाविजम्भितम् । वैलक्षण्यासिद्धेः । पृथक्त्वव्यवहारस्याप्ययमम्मात्पृथगिति सावधित्वेनैव प्रवृत्तेरितरेतराभावस्यापि २० कचिदेकस्य द्वयोर्बहूनामत्राभाव इति संख्यानुरक्तत्वेन प्रतीतेः । नियमेन तु पृथक्त्वव्यवहारोऽपि न । तथायमस्मात्पृथगिति संख्योल्लेखमन्तरेणापि भावात् । अथायमित्येकवचनेनोल्लिख्यमानैकस्वसंख्यास्त्येवाति चेत् । अयमयं न भवतीत्यत्राप्येवमस्तु । यत्तूदयनः प्राह- 'पृथगादिशब्दाः पर्याया इत्यनुमन्यामहे न त्वभावार्था २५
१ . द. ४११६
"Aho Shrut Gyanam"