________________
९३०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ मू. ८ इति पञ्चम्या सम्बन्धानुपपत्तेन हि घटापटः पृथगिति घटापटो न भवतीति वाक्यार्थः ' इति तदपि न कुशलाय । यतो यदि पञ्चमीसंबन्धानुपपत्तिमात्रेणैतेषां शब्दानां सर्वथाप्यभावार्थत्वं प्रतिषिध्यते तदा षष्ठीसंबन्धानुपपत्त्याऽभावशब्दम्याभावार्थत्वमपि कथं ५ म्यात् । न हि घटस्याभावोऽत्रास्तीति घटम्पात्र नास्तीत्यपि वा
क्यार्थः संगच्छते । किं तु घटोऽत्र नास्तीति । ततः कथमभावशब्दस्याभावार्थत्वं स्यात् । अथ घटम्याभायोऽत्रेत्यभावोऽल्लेखिनी प्रतीतिः । न चात्राभावशब्दस्याभावोऽभिधेय इति महच्चित्रम् । अय
मस्मात्पृथगित्यन्यत्रान्यस्य स्वरूपाभावोल्लेखिनी प्रतीतिः । न चात्र १० पृथक्शब्दस्याभावोऽभिधेय इति किं न चित्रम् । अथ घटोऽत्र नाम्तीति
नञोऽभावद्योतकत्वात्कर्तृवाचकेन घटशब्देनैव क्रियाया अभिसंबन्धः । ततश्च प्रथमैव घटशब्दात् । घटस्याभावोऽत्रास्तीत्यत्र स्वभावशब्देन कर्तवाचकेन क्रियाया अभिसंबन्धसंभवात् । तत पत्र
प्रथमा । तत्संबन्धत्वेन तु घटशब्दात्यष्ठी । तात्पर्य प्रति तूम१५ यत्रापि नास्ति विशेषः । ताई घटः पटो न भवतीत्यत्रापि नत्रो
द्योतकत्वेनान्यार्थत्वाभावान्न तद्योगे घटशब्दात्पञ्चमी । पृथक्शब्दस्य तु वाचकत्वेनान्यार्थत्वात् । अन्यारादितरतें' इत्यनेन द्योतने ततः सा भवत्येव । तात्पर्य प्रति तूभयत्रापि नास्ति कश्चिद्विशेष इति
सर्व तुल्यम् । यदा तर्हि घटे पटस्याभाव इत्यभावश्चनेर्वाचकम्य २० प्रयोगस्तदा कथं न पञ्चमीति चेत् । अस्याप्यन्यार्थत्वाभावात् । स
एव ह्यन्यार्थः शब्दो योऽर्थान्तराभावोपहितेऽर्थान्तरे वर्तते । यथा घटात्पटः पृथगित्यत्र घटाभावोपहिते पटे वर्तमानः पृथक्शब्दः । न चाभावशब्दस्तथा । सर्वदाऽभावमात्रनिष्ठत्वात् । न हि भवति घटे
पटोऽभाव इति । किं तु पटस्याभाव इति । यदा तपटो घट इत्यु२५ च्यते तदानीमपटशब्दोऽभावोपहितपदार्थान्तरवाचकोऽन्यार्थोऽस्त्येव ।
१ पा. सू. २॥३॥२९॥
"Aho Shrut Gyanam"