________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
९३१
पटाभावोपहितघटप्रतिपादकत्वादिति कथं नान्न पञ्चमीति चेत् । ननु कुत: शब्दादत्र पञ्चमी प्रेर्येत किमपटशब्दाद्धटशब्दाद्वा । नाद्यः पक्षः । अन्यार्थशब्दयोगे शब्दान्तरादेव पञ्चमीप्रयोगप्रतिपादनात् । न हि घटः पटात्पृथमित्यत्र पृथक्शब्दादेव पञ्चमी प्रयुज्यते । नापि द्वितायः । यतो यस्यान्यार्थेन शब्देन साक्षात्संबन्धो न भवति तम्मादेवेयं पञ्चमी ५ विधीयते । यथा घटः पटात्पृथगित्यत्रैव घटात् । न चात्रापटशब्दस्तथा । तस्य साक्षाद्वघटशब्देनैव संबन्धात् । न चात्र शब्दान्तरमस्ति यतः पञ्चमी शङ्कयेत ततोऽपटशब्दम्याप्यन्यादिशब्दैः समानयोगक्षेमत्वासंभवान्नान्यार्थत्वम् । अपि च पृथगादिशब्दाः पर्याया इत्यत्रेतरशब्दोऽपि पृथक्शब्दसमानार्थतया संमतस्ते । इदमम्मात्पृथगन्यदी- १० न्तरमितरद्भिन्नमिति त्वयैव स्वग्रन्थेऽभिधानात् । तच्चासंगतम् । इतरध्वनेरन्यार्थतायाम् 'अन्यारादितरते' इत्यत्रान्यार्थत्वेनास्य गतत्वान्न भिन्नस्योपादानं स्यात् । अथापोद्धारव्यवहारापेक्षया तस्य पर्यायता द्वयोरुपलक्षितयोरेकतरवचनत्वरूपेण तु विशेषणेतरशब्दः सूत्रे भेदेनोद्दिष्टः । तर्हि तदपेक्षयैव ननादरपि पर्यायतास्तु । द्योतकत्वादिना १५ तु विशेषेण सूत्रेऽन्यार्थत्वेन न गृह्यत इति किं न स्यात् । पृथक्त्वगुणाकक्षीकरणे चायं विशेषलाभो यद्गुणः कर्मणः पृथगुणकर्मणी सामान्याद्गुणकर्मसामान्यानि विशेषेभ्यो गुणकर्मसामान्यविशेषाः समवायादित्यम् वलद्वतिरनुभूयमानः पृथक्त्वव्यवहारोऽनुपचरितवृत्त्यैव समर्थितः स्यात् । अन्यथा तु द्रव्येष्वेव पृथक्त्वस्य भावात्तत्रैव २० तत्प्रत्ययो मुल्यः स्यादिति । यच्च 'अप्राप्तिपूर्विका प्राप्तिः संयोगः' इत्युक्तं तत्रापि यदा प्राग्भाविसान्तरत्वस्वरूपपरिणामपरित्यागेन निरन्तररूपतया यः कथंचित्तादात्म्यपरिणामः स संयोगः संमतस्तदा न कश्चित्प्रत्यर्थी । नैरन्तर्येण परिणतानि हि वस्तूनि संयुक्तव्यवहारगोचरतां प्रतिपद्यन्ते । निरन्तरावस्थितदेवदत्तयज्ञदत्तगृहयत् । २५ ननु नायं दृष्टान्तः कान्तः । स्तम्भाद्यनेकपदार्थसंयोगस्वभावयोर्गृहयोः
"Aho Shrut Gyanam"