________________
परि. ५.८ ]
स्याद्वादरत्नाकर सहितः
धर्मः प्रतिनियतेनैव वेद्यमानो दृश्यते । सत्यम् । तस्य प्रतिनियतात्मसमवायित्वे तमेव प्रतियोग्यदेशत्वात् । द्वित्वादिकं तु बाह्यार्थधर्मतया रूपादिवत्तद्देशवर्तिप्रमातृनशेषानपेक्ष्य योग्यदेशमेवेति तद्वत्प्रकाशेत । न च नियतप्रमातृवुद्धिजन्यत्वात्तस्यैव तग्रहीतृत्वं योग्यम् । एवं हि सति कलशादिरपि येनैवं जनितं तस्यैव ग्रहीतुं योग्यः स्यात् । असिद्धं चाद्यापि प्रमातृबुद्धिजत्वं द्वित्वादेः । नन्वेवं रूपादिवद्वित्वादेरवि प्रथमदर्शनसमय एव किं न प्रतिभासः । ननु निरन्तरतर तिमिरनिकरपरिकरिते मूर्तेः कुम्भस्यापि किं नासौ । अभिव्यञ्जकस्यालोकस्यासंभवादिति चेत् । इतरत्राप्यभिव्यञ्जिकाया अपेक्षा बुद्धेरभावादित्यवेहि । यदा त्वसौ संपद्येव भवति तत्प्रतिभासः । ननु कुम्भा - १० दावभिव्यते यथा तद्देशवर्तिनः शेषप्रमातृणां तत्प्रतिभास: प्रभवति तथा चैत्रसकापेक्षा बुद्ध्यमिव्यते द्विवादी मैत्रादीनामपि तद्बुद्धिर्भवेत् । न चैवमिति । न व्यक्तिपक्षः क्षेमकर इति चेत् । नैवम् । उत्पत्तिपक्ष एवैतद्दषणावताराद्वयादौ स्वजनकादन्यैरपि प्रतिभासदर्शनात् । अभिव्यक्तिपक्षे तु नायं दोषो यतश्चक्षुः स्पर्शन सहकारिणोऽ- १५ भिव्यञ्जकाः स्वयमुपलभ्यमाना एवान्यमुपलम्भयन्ति । घटाद्यभिव्यञ्जकप्रदीपाद्या लोकशरीरसंसक्ततोयशीतस्पर्शाभिव्यञ्जकवायुवत् । न च
B
९२५
चैत्रबुद्धिमैत्रादीनामध्यक्षा । तमेव प्रति तस्याः स्वसं
विदितत्वाच्चक्षुरायगोचरत्वाच्चेति तं प्रत्येकेयमभिव्यञ्जिका किंविघयासावपेक्षा बुद्धिरिति चेत् । एकल्वादिगोचरेति ब्रूमः । तथा हि-पदार्थ २० एकस्मिन् ज्ञाते पदार्थान्तरमेकमपेक्ष्य द्वित्वमभिव्यज्यते । एकस्मिन् द्वयोर्वा ज्ञातयोद्वविकं वापेक्ष्य वित्वमभिव्यज्यते । एकस्मिन् द्वयोस्त्रिषु वा ज्ञातेषु त्रीन् द्वावेकं वापेक्ष्य चतुष्ट्रमभिव्यज्यत इत्यादि तावज्ज्ञेयं यावत्पर्यन्तसंख्येति न नियमेनैकप्रतिपत्तवेद्यत्वं सिद्धम् । अनुमानबाधितश्चात्र पक्षः । तथा हि- द्वित्वादिकं बुद्धिजं न भवति २५ संख्यात्वादेकत्ववदिति पराकृते चैवं द्वित्वादेर्बुद्धिजत्वेऽपेक्षा बुद्धि
-
५९
" Aho Shrut Gyanam".