________________
२२४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ तदप्यक्षमम् । द्वयादिवस्तुप्वेकत्वाभावस्याभावात् । तेषां स्वेन म्वनैकत्वेनाधिष्ठितत्वात् । अथ द्वयादिष्वेकस्यैकत्वस्याभावः सुप्रतीत एव । नन्वेकमेकत्वमिति स्वसिद्धान्तविरुद्धमभिधीयते । एकत्यस्य गुणत्वेन तत्रैकत्वगुणान्तराभावस्य निर्गुणा गुणाः' इति त्वत्सिद्धान्तेऽभिधानात् । ५ औपचारिकं तत्तत्र भविष्यतीति चेत् । किंगतम्य तस्य तत्रोपचारः ।
द्रव्यगतस्येति चेत् । ननु द्रव्येऽपि तावत्तदेवैकत्वमस्ति नान्यदिति तदेव तत्रोपर्यत इत्यहो शुद्धा बुद्धिः । अस्तु वा यथाकथंचिदनेकविषयबुद्धिसहितशब्दार्थस्तथापि यदि बुद्धिसकाशाद्वाह्यार्थस्योत्पादः
स्यात्तदा द्वित्वादिवदन्यस्याप्यर्थस्यायं किं न भवेत् । अथ द्वि१० त्वादिरेव तदन्वयव्यतिरेकानुविधायित्वात्तस्यैव ततः समुत्पत्तिरिति
चेत् । नैवम् । अभिव्यञ्जकल्वेनापि तस्यास्तेनान्वयव्यतिरेकयोरनुविधानस्य संभवात्प्रदीपस्येव पटादिना । अथ यदि द्वित्वादिकमबुद्धिजं स्याद्रूपादिवत्पुरुषान्तरेणापि प्रतीयेत । नियमहेतोरभावात् ।
बुद्धिजत्वे तु यस्य बुद्धया तज्जन्यते तेनैवोपलभ्यत इति नियमोपपत्तेः। १५ प्रयोगस्तु-द्वित्वादि बुद्धिजं नियमेनैकप्रतिपत्तृवेद्यत्वात् । यन्नियमेनैक
प्रतिपत्तवेद्यं तद्बुद्धिजं यथा सुखादिकम् । नियमेनैकप्रतिपत्तृवेद्यं च द्वित्वादि तस्मादिदमपि बुद्धिजमिति । तदपि नोपपद्यते । नियमेनैकप्रतिपत्तवेद्यस्यासिद्धेश्चैत्रेणेव मैत्रेणापि द्वित्वार्थिद्यमानत्वात् । अन्यदेव
द्वित्वादि मैत्रेण वेद्यत इति चेत् । कुत एतत् । तदपेक्षाबुद्धिवशादन्य२० स्यैव तम्योत्पत्तेरिति चेत् । तदचतुरस्रम् । चक्रकचक्राकीर्णत्वात् ।
तथा हि-सिद्धे द्वित्वादेर्बुद्धिजत्वे चैत्रापेक्षया मैत्रस्यान्यद्वित्वादिवदेकत्वसिद्धिः । तत्सिद्धौ चैत्रस्य नियमेनैकप्रतिपत्तवेद्यत्वसिद्धिः । तसिद्धौ चैत्रस्य बुद्धिजत्वसिद्धिरिति । किं च यदेव चैत्रेण द्वित्वा
दिकमवेयते यदि तदेव मैत्रेणापि देयेत तदा को दोषः स्यात् । न २५ खलु योग्यदेशावस्थितः पदार्थः प्रतिनियतेनैव प्रमात्रा प्रतीयत इति
नियमोऽस्ति । रूपादेरनियतपत्तृपरिच्छेद्यत्वदर्शनात् । ननु सुखादि
"Aho Shrut Gyanam"