________________
परि. ५ सू. ८ स्याद्वादरत्नाकरसहितः शतमिति न किंचिजानीमो विंशतिपञ्चकं तु दद्म इत्येवं तेषां व्यवहारदर्शनात् । द्वितीये त्वेकाधिकपरार्धेऽपि विद्वद्भिर्व्यवहरणास्कथं न तस्याः संख्यात्वं स्यात् । तथा च दृश्यते विदुषां व्यवहारः 'परार्धानां परार्धानि प्रसूते श्लोकतर्णकान्' इत्यादि । अथ गणितशास्त्रे--'मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः ' इति परार्धमेव ५ यावदस्या अभिधानात्तदन्तैवेयमवसीयत इति चेत् । तदयुक्तम् । सदभिन्नस्याभिधेयाव्यापकत्वादियत्ता हि संख्या समाख्यायते । सा च परार्ध इवैकाधिकपरार्धादावप्येवंभूतैवानुभूयते । किंचेदं गणितशाम्यं नियामकतया व्याख्येय किंतूपलक्षक (ण) तया । एवमन्यदपि दशगुणया वृद्धथा अङ्कस्थानं ज्ञेयमिति । 'यंत्र इयत्ताव्यवहारः १० परिसमाप्यते स परार्धः' इति श्रीधरः । सोऽपि यद्येवं तेन वचसा दशगुणितं मध्यं परार्धशब्दाभिधेयमभिदधीत तदा प्राक्तनेनैवापास्तः । अथ यतः कुतोऽपि पुरस्तादियत्ताव्यवहारो नास्ति तत्परार्धाभिधेयमभिदध्यात्तदा सर्ववाद्यविवादप्रतिपन्नप्रामाण्यगणितशास्त्रबाधापत्तिः । सत्र दशगुणितमध्यस्य परार्धाभिधेयत्वेन प्रसिद्धेः । यच्चोक्तम्- १५ ' एकत्वेभ्योऽपेक्षानामकानेकविषयबुद्धिसहितेभ्यो निष्पत्तिः । इति तदप्ययुक्तम् । यतोऽनेकविषयबुद्धिसहितेभ्य इत्यत्र किभेकविषयबुद्धिसाहित्याभावो विवक्षायां चक्रे द्विव्यादिपदार्थगोचरसाहित्यं वा । यद्याद्यः पक्षस्तदा सुतमत्तमूछिताद्यवस्थास्वप्यस्य भावावित्वादिसंख्योत्पत्तिः कथं न स्यात् । अथ द्वितीयपक्षः । तथा च श्रीधरः- २० 'अनेकशब्द एको न भवतीति व्युत्पत्त्या द्वयोर्बहुषु च द्रष्टव्यः' इति । अत्र च परस्पराश्रयदोषः । उत्पन्ने हि द्वित्वादी तत्र तद्धिरुत्पत्स्यते । तदुत्पती च द्वित्वादेरुत्पत्तिरिति । अथ नैकमनेकमेकत्वाभावविशिष्टं वस्तु तद्विषयबुद्धिसहितेभ्य इत्यत्र विवक्षितम् ।
१ न्या. के. पृ. ११५ पं. ७ 'यत्र' इत्यत्र यस्मिन्' इत्यस्ति न्यायकन्दल्याम् । . २ था. क. पृ ११२ पं. १२।
"Aho Shrut Gyanam"