________________
९२२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५२.८
तस्य स एवायं पटादिरिति प्रत्यभिज्ञानेन बाधनात् । न च सदृशापरापरोत्पत्तिविप्रलब्धबुद्धीनां प्रमातृणामपनीतोद्गतनखशिखरादिष्विवात्रापि भ्रान्तमेवेदं प्रत्यभिज्ञानमिति वक्तव्यम् । नखादेरिव पटादेरापि प्रध्वंसोत्पादसिद्धिनिबन्धनप्रमाणमन्तरेणैवंविधव्यवस्थायाः कर्तुमशक्तेः । ५ न रूपादीनां प्रध्वंसोत्पादावेव पटादिप्रध्वंसोत्पादयोः प्रमाणम् ।
तद्विनाशोत्पादयोर्द्रव्यस्यापि ताभ्यां भीवतव्यमेवेति नियमाभावात् । न च तेषां यावद्रव्यमावित्वनिर्णयातन्नियमः साधीयान, याव
व्यभावित्वस्याद्यापि विवादपङ्कनिममत्वात् । ननु रूपादिपर्यायप्रध्वंसोत्पादेर्याद्रव्यस्यापि कथंचित्तावुपगतावेव । अन्यथा सर्वथा १. द्रव्यपर्याययोर्भेदापत्तेः । तथा च सिद्धममीषां कथंचिद्यावय
भावित्वमपीति चेत् । एवमेतत् । किं त्वेवं न कश्चिद्यावद्दव्यभावी गुणो नाम स्यात् । संयोगादिगुणानामप्येवं यावद्दव्यभावित्वसिद्धेः । एवमग्रेऽपि सर्वं दूषणं स्वयमूहनीयम् । विशेषस्तु दूत
यिष्यते । यस्तु ताथागतो रूपादयोऽगव एव न गुणा इत्यगादी१५ तस्य कुतोऽयमभ्युपगमः । भेदानुपलब्धेश्चेत् । तत्किमय
मणूनुपलभते संचितांस्तानिति चेत् । नतु संचयस्तेषां स्थूलाकारपरिणामः परमाणुभ्यः कथंचिदतिरिक्तः प्राक्साधितस्ततस्तस्यैवोपलब्धिरस्ति नाशूनाम् । अपमपि रूपरसगन्धस्प
त्मैिव न तद्वानिति चेत् । कुतः । एतद्भेदानुपलब्धेश्चेन् । सा यदि २० देशकालभेदेनानुपलब्धिर्विवक्षिता तदा रूपादिभिरेव व्यभिचारिणी ।
अथ स्वरूपभेदेन तदाऽसिद्धा । पटप रूपादय इति तेषां भिन्नस्वरूपेण प्रतीतः । ततः सिद्धा अमी कथंचित्म्यूलाकारातिरेकिणः । यदुक्तम् ' द्वित्वादिसंख्यानुपरार्धता(र्धतोs)अनेकद्रव्या' इति । तत्र
परार्धान्तैव संख्येति कुतस्त्या नियतिः । परार्धमेव यावत्र्यवहार२५ दर्शनादिति चेत् । नन्वयं व्यवहारः पामरप्रायपुरुषाणामेव संबन्धी
विवक्षितो विदुषां वा । प्रथमे कल्ये शतादेरपि संख्यात्वं दुरापम् ।
"Aho Shrut Gyanam"