________________
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः
९२१ एतच्चानुपपन्नम् । न ह्यवयवैभिन्नोऽवयवी निष्पाद्यत इत्यत्र प्रमाणमस्ति यतस्तद्वर्तिभिस्तैस्ते तत्रारभ्येरन् । द्रव्यं तु प्राक्तनाकारपरित्यागेनोतरमाकारमाक्रमदुपलभ्यते यथा पिण्डाकारपरित्यागेन कुम्माकारमाकालयन्ती मृत् । ननु तन्तवः कुविन्दकरव्यापारात्पटमारममाणा दृश्यन्ते । नैवम् । तत्रापि पार्थिवद्रव्यस्यैव विशकलिततन्तुपर्यायपहाणेन ५ समुदितत्वपर्यायप्राप्तेर्दर्शनात्तत्समुदायस्यैव च पटद्रव्यव्यपदेश्यत्वात् । न चैवं पटस्य निरवयवत्वं स्वावप्रवद्रव्याद्रकातिरेकेण पटस्यापि सावयवत्वात् । तस्मान्न रूपादीनां स्वाश्रयादन्यत्रारम्भकत्वं युक्तम् । वैशेषिकगुणा इति च कोऽर्थः-विशेषो व्यवच्छेदस्तस्मै ये भवान्त गुणास्ते वैशेषिकगुणा रूपादयः । ते हि स्वाश्रयमितरस्माद्वयव. १०. च्छिन्दन्ति न सांख्यादयः । तेषां स्वतो विशेषाभावात् । यस्तु तेषां विशेषः स स्वाश्रयविशेषकृत एवेति चेत् । तदसंगतम् । गुरुत्ववेगनैमित्तिकद्रवत्वादीनामपि वैशेषिकगुणत्वापत्तेः । तेषामपि स्वाश्रयस्य मूर्तिमतः पृथिव्यादेव्यस्येतरस्मादमूर्तादाकाशादेव्यवच्छेदकत्वात् । अथ गुरुत्वस्य पृथिव्युइकोबैगय पृथिव्यादिषु चतुर्षु नैमित्तिकत्वस्य १५. पृथ्वीतेजसो: साधारणधर्मत्वात् । सामान्यगुणत्वं तर्हि रूपादीनामपि केषांचित्तद्भवेत्तेषामपि द्रव्यत्रयचतुष्टयद्रव्यसाधारणधर्मत्वात् । समानजातीयकारणगुणपूर्वकत्वं चावयवैरवयव्यारम्भे पराकृते पराकृतमेव यावव्यभावित्वमपि नामीषां संगच्छते । यस्मादेतेषां पर्यायप्रवाहसत्त्वापेक्षयकपर्यायसत्त्वापेक्षया वाभिधीयेत । न । आद्यपक्षे विप्रति- २० पत्तिः । घटादिद्रयं यावदमीषामपरापरेषामुत्पदिष्णूनां प्रवाहस्य स्वीकारातस्य कथंचित्तदात्मकत्वात्याकजानामप्येवं यावद्व्यभावित्वापत्तेश्च । द्वितीयपक्षे तु प्रत्यक्षपीडा । सत्येव पटादौ प्रत्यग्राणां तेषां विनाशेन पुराणानामुन्मज्जतां प्रत्यक्षेण प्रेक्षणात् । न च पाकजोत्पत्तिक्रमेण पटादिरूप्यन्य एवो- २५ त्पद्यत इति वाच्यम् । अत्र प्रमाणाभावात् । सर्वस्योपन्यम्यमानस्य
"Aho Shrut Gyanam"