________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५.८
यतोऽमी प्रत्ययाः कार्यभूताः सन्तः कारणमात्रस्यैवानुमापका: । न दिग्द्रव्यलक्षण कारणविशेषस्य । तत्र च सिद्धसाध्यता । तेषामाकाशलक्षणकारणपूर्वकत्वाभ्युपगमात् । तस्यैव दिगिति नामान्तरकरणे नाम्न्येव विवादो नार्थे । दिशस्ततो द्रव्यान्तरत्वासिद्धेः । न च दिग्द्रव्यासंभवे क प्राच्यादिव्यवहारः स्यादित्यभिधातव्यम् । आकाश - प्रदेशश्रेणिवेवादित्योदयादिवशात्प्राच्यादिव्यवहारोपपत्तेः । तथा चैषां न निर्हेतुकत्वं स्यात् । तथाभूतप्राच्यादिदिक्संबन्धाच्च मूर्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषस्योत्पत्तेर्न परस्परापेक्षया मूर्तद्रव्याण्येव तद्वेतको
येनैकतरम्य पूर्वत्वासिद्धिः । तदसिद्धौ चैकतरस्य पूर्वत्यासिद्धिरितीत१० राश्रयत्वेन पूर्वापरप्रत्ययाभावः स्यात् । ननु मूर्तद्रव्येषु पूर्वादिप्रत्यय
स्याकाशप्रदेशश्रेणिहेतुत्वे आकाशप्रदेशश्रेणावपि तत्प्रत्ययम्य किं हेतुत्वं स्यादिति चेत् । स्वरूपहेतुत्वमेवेति त्रूमः । नत्प्रदेशपङ्क्तेः स्वपररूपयोः पूर्वापरादिप्रत्ययहेतुम्वरूपत्वात् । प्रकाशस्य स्वपररूपयो:
प्रकाशहेतुस्वरूपवत् । कथमन्यथा दिकप्रदेशेष्वपि तत्प्रत्ययोत्पत्तिः १५ स्यात् । तत्र हि पूर्वापरादिप्रत्ययोत्पत्तिः स्वभावतो दिन्द्रव्यान्तरांपे
शया परम्परापेक्षया वा स्यात् । यदि स्वभावतस्तदा तत्प्रत्ययपरावृत्तिन स्यात् । यत्र हि दिक्प्रदेशे पूर्वप्रत्ययहेतुत्वं तत्र तदेव नापरप्रत्ययहेतुत्वं स्यात् । यत्र च तन्न तत्र पूर्वप्रत्ययहेतुलमिति । अस्ति च तत्परावृत्तिः।
यत्र हि दिक्प्रदेशे विवक्षितप्रदेशापेक्षया पूर्वप्रत्ययहेतुत्वं दृष्टं तत्रैवा२. न्यप्रदेशापेक्षयाऽपरप्रत्ययहेतुत्वम् । तदाह
'प्राग्भागो यः मुराष्ट्राणां मालवानां स दक्षिणः ।
प्राग्भागः घुनरेतेषां तेषामुत्तरतः स्थितः ॥ इति । दिग्द्रव्यान्तरापेक्षया तत्र तत्प्रत्ययहेतुत्वेऽनवस्था। तत्रापि तत्प्रत्ययहेतुत्वस्यापरदिग्द्रव्यहेतुत्वप्रसंगात् । परम्परापेक्षया च तत्प्रदेशानां २५ तत्प्रत्ययहेतुत्वेऽन्योन्याश्रयानुषङ्गः । ' सवितुमरुप्रदक्षिणमावर्तमान
१ वै. द. प्र. पा. भा. पृ. २९ पं. ४ ।
"Aho Shrut Gyanam"