________________
पारे. ५ सु. ८ ] स्याद्वादरत्नाकरसहितः
८९७ रङ्गकारणापेक्षा कार्यत्वात्तन्दुलपाकवत् । यत्तद्वाहिरङ्गं कारणं स कालः । का पुनरियं वर्तना नाम प्रतिद्रव्यपर्यायमन्तीतैकसमया म्वसत्तानुभूतिर्वर्तना।
'अन्ततिकसमयः स्वसत्तानुभवोऽभिधा ।
यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ इति वचनात् । ननु कालवर्तनाया व्यभिचारः स्वयं वर्तमाने कालस्यैकत्र समये तदभावात् । न हि कालसमयः स्वसत्तानुभूतौ प्रयोजकमपरमपेक्षते । स्वयं सर्वप्रयोज कस्वभावत्वात् । स्वप्रयोजकत्वे सर्वप्रयोजकस्वभावत्त्वविरोधात् । सर्वज्ञविज्ञानस्य स्वरूपपरिच्छेदकत्वाभावे सर्वपरिच्छेदस्वभावत्वविरोधवत् । तदसत् । काले वर्तनाया १० अनुपचरितरूपेणासद्भावात् । यस्य हे सत्तान्येन वय॑ते तस्य सा मुख्या वर्तनात्र विवक्षिता । कर्मसाधनत्वात्तस्याः । कालस्य तु नान्येन सत्ता वय॑ते । स्वयं सत्तावृत्तिहेतुत्वादन्यथा नवस्थानुषंगात् । ततः कालभ्य स्वतो वृत्तिरेव । उपचारतो वर्तनात् । वृत्तिवतयोविभागाभावान्मुख्यवर्तनानुपपत्तेः । ननूपचरितवर्तनारूपवृत्त्यापि व्यभिचारो १५ दुर्निवारः । कार्यत्व सत्यप्यस्यां वहिङ्गनिमित्तत्वासंभवात् । तदयुक्तम् । अकालवृत्तित्वे सति कार्यवादिति सविशेषणस्य हेतोः सामर्थ्यादवसीयमानत्वात् । यथा पृथिव्यादयः स्वतोऽर्थान्तरभूतज्ञानवेद्याः प्रमेय .... दि ज्ञानं तन्मूर्तद्रव्यन्यतिरिक्तपदार्थनिबन्धनं तत्प्रत्ययविलक्षणत्वात् । २० सुखादिप्रत्ययवत् । यद्यपि दिग्लिङ्गाविशेषादियमेकैव तथापि प्रदक्षिमावर्तपरिवर्तमानमार्तण्डमण्डलमरीचिनिचयभुज्यमानकाञ्चनाचलकटकसंयोगोपाधिकृताः पूर्वापूर्वदक्षिणादक्षिणेत्यादयो दश प्रकाराः कल्पन्ते देवतापरिग्रहवशाच्च पुनरेव दिग्दशधा व्यपदिश्यते । ऐन्द्री आग्नेयी याम्या नैती वारुणी वायव्या कौबेरी ऐशानी नागीया ब्राह्मी चेति । २५ अत्रोच्यते । यत्तावदुत्तम् — मूर्तेप्वेव द्रव्येषु ' इत्यादि । तदसंगतम् ।
"Aho Shrut Gyanam"