________________
पूर्वादि
परि. ५ सु. ८ ] स्याद्वादरत्नाकरसहितः स्य' इत्यादिन्यायेन दिग्द्रव्ये प्राच्यादिव्यवहारोपपत्ता तत्प्रदशपङ्क्तिप्वप्यत एव तद्व्यवहारोपपतेरलं दिग्द्रव्यकल्पनया । अन्यथा देशद्रव्यस्यापि कल्पनाप्रसंगः । अयमतः पूर्वो देश इत्यादिप्रत्ययस्यापि देशद्रव्यमन्तरेणानुपपत्तेः । तथा च नव द्रव्याणीति द्रव्यसंख्याव्याघात : स्यात् । पृथिव्यादिरेव देशद्रव्यमित्यनुपपन्नम् । तस्य पृथिव्यादि. ५ प्रत्ययहेतुत्वेनायमतः पूर्वो देश इति प्रत्ययहेतुत्वानुपपत्तेः । अथ
.... .... शगुणेनापि प्रत्यक्षेण शब्देनानेकान्त इति चेत् । नेवम् । एतस्मिन्नाकाशगुणत्वस्य निषेत्म्यमानत्वात् । ततः परोक्षात्मधर्मा यदि बुद्धिस्तदानीमप्रत्यक्षव स्यात् । न च तथेति प्रसंगविपर्ययावतारः । तथा हि- यदस्मदादिप्रत्यक्षं न तद - १० त्यन्तपरोक्षगुणिगुणः । यथा घटरूपादि । तथा च बुद्धिरिति सिद्धं प्रत्यक्षेणैवात्मनोऽसर्वगतत्वम् । ननु नास्य प्रत्यक्षेण तथा प्रतीतियुक्ता । तम्य नियतदेशावच्छेदोल्लेखिशब्दप्रयोगानास्पदत्वात् । न ह्येतावति प्रदेशे समस्त्यात्मेति प्रत्यक्षमतिः कस्याप्युदेति । तदपि नोपपद्यते । शरीरमात्रेऽत्रात्मा मदीय इत्युल्लेखवता स्व. १५ संवेदनेन तत्प्रतीतिसद्भावात् । अस्तु वा नियतदेशोल्लेखिशब्दप्रयोगानास्पदत्वम् । तथापि कथं प्रत्यक्षेण तदनुभवः । न हि शब्दानुविद्धत्वं प्रत्यक्षम्य म्वरूपम् । येन तदभावे तम्यार्थस्वरूपविवेचकत्वाभावः स्यात् । तत्र तदनुविद्वत्वस्य प्रागेव कृतोत्तरत्वात् । अतोऽनुभवोत्तरकालीन एव सर्वत्र शब्दप्रयोगः । अनुभते ह्यनेकधर्माध्यासिते २० वस्तुनि यत्रांशेऽनुभवप्रबोधनिबन्धनं संकेतम्मरणमुपजायते तत्रैव शब्दप्रयोगो नान्यत्र तत्कथं तदप्रयोगातदनुभवाभावः। नियतदेशोल्लेखिशब्दाप्रयोगाद्देशनैयत्याननुभवे च कालाकारनैयत्यस्या - प्यननुभवः स्यात् । न हि घटस्य सुखित्वस्य च बहिरन्तः. प्रतीतौ देशकालाकारनैयत्योल्लेखिनामत्रेदानीमीदृशशब्दानां प्रयोगोऽ- २५ स्ति । अतोऽत्र प्रतीतो प्रतिनियतस्य वस्तुम्वरूपम्य कम्यचिदपि
"Aho Shrut Gyanam"