________________
२००
प्रमाणनयतत्त्वालाकालङ्कारः
पिरि. ५ म. ८
प्रतिभासाभावात्वपुष्पप्रतीतितो नास्याः कश्चिद्विशेषः स्यात् । सत्त्वासत्त्वप्रतिभासकृतः सोऽत्रास्तीति चेत् । न । सदसच्छब्दयोरप्रयोगे तस्याप्यसंभवात् । अस्तु वासौ तथापि परमाण्वाकाशप्रतीतितः किंकृतोऽस्याविशेषः स्यात् । स्फुटत्वात्स्फुटत्वप्रतिभासकृत इति चेत् । ५ न । नियतदेशकालाकारग्रहणव्यतिरेकेण स्फुटत्वास्फुटत्वप्रतिभासस्यैवासंभवात् । ततः प्रत्यक्षप्रतीतेरितरप्रतीतितो विशेषमिच्छता देशादि नैयत्यप्रतिभासस्तच्छब्दाप्रयोगेऽप्युपे नव्यः । न च भवतापि शब्दानुविद्धमेव प्रत्यक्षं कक्षीचक्रे निर्विकल्पस्यापि प्रत्यक्षस्याभ्युपगमात् ।
इति सिद्धा प्रत्यक्षेणात्मनः सर्वगतत्वबाधा । अनुमानेनापि साम्त्येव । १० तथा हि--- नात्मा सर्वगतः क्रियावत्त्वात् । यदेवं तदेवम् । यथा
वायुस्तथा चायं तस्मात्तथेति । न चास्य क्रियावत्त्वमसिद्धम् । प्रत्य. क्षेणैव तत्प्रतीतेः । तथा हि- प्रत्यक्षेण सर्यो देशान्तरमायान्तमास्मानं प्रतिपद्यते । तथा च बदत्यहमद्य योजनमेकमागत इति । मनः
शरीरं वा समागतमिति चेत् । किं पुनस्तदहंप्रत्ययवेद्यम् । तथा १५ चेञ्चार्वाकमतानुषङ्गः । अथ यथा स्थूलोऽइमिति शरीरमात्रनिमित्तः ।
प्रत्ययस्तथागतोऽहमित्यादिरपीति चेत् । नन्वहं सुखीत्यादिरपि किं न तथा स्यात् । सुखस्यात्मनि संभवादात्मगोचर एवायमिति चेत् । गतिरप्यात्मनि संभवत्येवेति सोऽपि तन्निमित्त: किं न स्यात् । अथ नात्मा क्रियावान् , सर्वगतत्वात् , गगनवदित्यनुमानवाधितत्वात्तत्र गतेरसंभव एव । नैवम् । इतरेतराश्रयापत्त्या हेतोरत्रासिद्धत्वात् । सिद्धे हि तम्य क्रियावत्त्वाभावे सर्वगतत्वसिद्धिः । तत्सिद्धौ च क्रियावत्त्वाभावसिद्धिरिति सिद्धं प्रत्यक्षेणैव तत्र क्रियावत्त्वम् । अनुमानतोऽपि तसिध्यति । तथा हि- क्रियावान् , आत्मा, अन्यत्र द्रव्ये क्रियाहेतुत्वात् , समीरणवदिति । कालेन व्यभिचारान्न हेतुर्गमकोऽत्रेति चेत् । न ! कालस्य क्रियाहेतुत्वाभावात् । क्रियानिर्वर्तकत्वं हि क्रियाहेतुत्वमिह साधनम् । न पुनः क्रियानि
"Aho Shrut Gyanam"